मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३८, ऋक् ४

संहिता

आ॒तिष्ठ॑न्तं॒ परि॒ विश्वे॑ अभूष॒ञ्छ्रियो॒ वसा॑नश्चरति॒ स्वरो॑चिः ।
म॒हत्तद्वृष्णो॒ असु॑रस्य॒ नामा वि॒श्वरू॑पो अ॒मृता॑नि तस्थौ ॥

पदपाठः

आ॒ऽतिष्ठ॑न्तम् । परि॑ । विश्वे॑ । अ॒भू॒ष॒न् । श्रियः॑ । वसा॑नः । च॒र॒ति॒ । स्वऽरो॑चिः ।
म॒हत् । तत् । वृष्णः॑ । असु॑रस्य । नाम॑ । आ । वि॒श्वऽरू॑पः । अ॒मृता॑नि । त॒स्थौ॒ ॥

सायणभाष्यम्

विश्वे सर्र्वे कवयो रथमातिष्ठन्तमिन्द्र पर्यभूषन् । परितोऽलमकुर्वन् । स्वरोछिः । स्वमेव रोछिर्यस्यासौ स्वरोचिः । स्वप्रभयैव दीप्यमान इत्यर्थः । अत एव श्रियो दीप्तिर्वसान आच्छादयन् सोऽयमिन्द्रश्चरति । सर्वत्र वर्तते । वृष्णः कामानां वर्षितुरसुरस्य । अस्यति प्रेरयति सर्वानन्तर्यामितयेत्यसुरः । तस्येन्द्रस्य तत्तादृशमनुभूतपुर्वं नाम । नमयति सर्वाननेन शत्रूनिति नाम कर्म । यद्वा नम्यते सर्वैर्नस्कियत इति नामेन्द्रस्य शरीरं कर्म वा । महदाश्चर्योपेतं वर्तते । तथा विश्वरूपो नानाविधरूपतां भजमानः स इन्द्रो वरुणात्मनामृतानि जलान्या तस्थौ । आधितिष्ठति । विश्वे । जसः शी । अभूषन् । भूष अलङ्कार इत्यस्य लङि रूपम् । वसानः । वस आच्छादन इत्यस्य शानचि रूपम् । तस्य लसार्वधातुकस्वरे धातुस्वरः । नाम । णमु प्रह्वत्व इत्यस्मान्नामन्सीमन्नित्यादिना मनिन्प्रत्ययान्तत्वेन निपातनादाद्युदात्तः । विश्वरूप इति तस्य संज्ञा । बहुव्रीहौ विश्वं संज्ञायामिति पूर्वपदान्तोदात्तत्वम् । अमृतानि । कालाध्वनोरत्यन्तरसंयोग इति द्वितीया । तस्थौ । तिश्ठतेर्लिटि णलि रूपं ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३