मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३८, ऋक् ९

संहिता

यु॒वं प्र॒त्नस्य॑ साधथो म॒हो यद्दैवी॑ स्व॒स्तिः परि॑ णः स्यातम् ।
गो॒पाजि॑ह्वस्य त॒स्थुषो॒ विरू॑पा॒ विश्वे॑ पश्यन्ति मा॒यिनः॑ कृ॒तानि॑ ॥

पदपाठः

यु॒वम् । प्र॒त्नस्य॑ । सा॒ध॒थः॒ । म॒हः । यत् । दैवी॑ । स्व॒स्तिः । परि॑ । नः॒ । स्या॒त॒म् ।
गो॒पाजि॑ह्वस्य । त॒स्थुषः॑ । विऽरू॑पा । विश्वे॑ । प॒श्य॒न्ति॒ । मा॒यिनः॑ । कृ॒तानि॑ ॥

सायणभाष्यम्

हे इन्द्रावरुणौ युवं युवां प्रत्नस्य स्तोतुर्महस्तादृशं श्रेयः साधथः । साधयथः । कीदृशं तदित्यत आह । यद्दैवी स्वस्तिर्यदिदं देवसम्बन्धि श्रेयः स्वराज्य लक्षनम् । किञ्च युवां नोऽस्मान्परि परितः स्यातम् । रक्शकौ भवेतम् । विश्वे सर्वे मायिनो देवा गोपाजिह्वस्य । गोप्त्री जिह्वा मा बिभीतेत्येतादृशी वाग्यस्य स तथोक्तः । तस्थुषः स्थिरतरस्येन्द्रस्य विरूपा नानाविधानि वृत्रहननादीनि क्रुतानि कर्माणि पश्यन्ति । एवमिन्द्रस्य विश्वरूपत्वमुक्तम् । युवम् । युष्मच्छब्दस्य द्विवचने युवावौ द्विवचन इति युवादेशः । ङेप्रथमयोरमिति सुपोऽमादेशः । साधथः । साध संसिद्धावित्यस्य ण्यन्तस्य लटि रूपम् । बहुलमन्यत्रापीति णेर्लुक् । निघातः । दैवी । देवाद्यञञावित्यञ् प्रत्ययः । ञित्स्वरः । स्यातम् । अस्तेर्लिङे रूपम् । गोपाजिह्वस्य । गुपो रक्शण इत्यस्यायप्रत्ययान्तस्य क्विप्यतोलोपयलोपयोः क्रुतयो रूपं गोपा इति । बहुव्रीहौ पूर्वपदस्वरः । तस्थुषः । ष्ठा गतिनिव्रुत्तावित्यस्य क्वसौ वस्वेकाजाद्घसामिति प्राप्तस्येटः सम्प्रसारणम् । सम्प्रसारनाश्रयं च बलीय इति सम्प्रसारनस्य बलीयस्त्वान्निवृत्तिः । वसोः संप्रसारनम् । प्रत्ययस्वरः । पश्यन्ति । दृशिर् प्रेक्शणे निघातः ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४