मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३९, ऋक् १

संहिता

इन्द्रं॑ म॒तिर्हृ॒द आ व॒च्यमा॒नाच्छा॒ पतिं॒ स्तोम॑तष्टा जिगाति ।
या जागृ॑विर्वि॒दथे॑ श॒स्यमा॒नेन्द्र॒ यत्ते॒ जाय॑ते वि॒द्धि तस्य॑ ॥

पदपाठः

इन्द्र॑म् । म॒तिः । हृ॒दः । आ । व॒च्यमा॑ना । अच्छ॑ । पति॑म् । स्तोम॑ऽतष्टा । जि॒गा॒ति॒ ।
या । जागृ॑विः । वि॒दथे॑ । श॒स्यमा॑ना । इन्द्र॑ । यत् । ते॒ । जाय॑ते । वि॒द्धि । तस्य॑ ॥

सायणभाष्यम्

विश्वामित्रः स्तौति । हे इन्द्र हृदो हृदयाद्वच्यमानोच्यमाना स्तोमतष्टास्तोमकारिभिः कृता मतिः स्तुतिः पतिं सर्वस्य जगतः स्वमिनं त्वामच्छाभिलक्ष्या जिगाति । समन्ताद्गच्छतु । या मदीया स्तुतिर्जागृविः स्तुत्यस्य तव जागरणं कुर्वाणा विदथे यज्ञे शस्यमाना भवति । हे इन्द्र ते त्वदर्थं यत्सोत्रं मत्तो जायते तद्विद्धि । जानीहि । तस्येति द्वितीयार्थे षष्ठी ॥ मतिः । मन्त्रे वृषेत्यादिना क्तिन्नुदात्तः । हृदः । हृदयशब्दस्य पद्दन्नोमासित्यादिना हृदादेशः । ऊडिदमिति विभक्तेरुदात्तत्वम् । वच्यमाना । वच परिभाषण इत्यस्य कर्मणि यक् । सम्प्रसारणाभावश्छान्दसः । प्रत्ययस्वरः । स्तोमतष्टा । तक्षू त्वक्षू तनूकरण इत्यस्य कर्मणि निष्ठा । तृतीया कर्मणीति पूर्वपदप्रकृतिस्वरतम् । जिगाति । गा स्तुतौ छन्दसीति जुहोत्यादिः । बहुलं छन्दसीत्यभ्यासस्येत्वम् । निघातः । जायते । जनी प्रादुर्भाव इत्यस्य लटि रूपम् । यद्वृत्तयोगादनिघातः । विद्धि । विद ज्ञान इत्यस्य लोटि हेर्हुझल्भ्यो हेर्धिरिति ध्यादेशः । वाक्यभेदादनिघातः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५