मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३९, ऋक् ४

संहिता

नकि॑रेषां निन्दि॒ता मर्त्ये॑षु॒ ये अ॒स्माकं॑ पि॒तरो॒ गोषु॑ यो॒धाः ।
इन्द्र॑ एषां दृंहि॒ता माहि॑नावा॒नुद्गो॒त्राणि॑ ससृजे दं॒सना॑वान् ॥

पदपाठः

नकिः॑ । ए॒षा॒म् । नि॒न्दि॒ता । मर्त्ये॑षु । ये । अ॒स्माक॑म् । पि॒तरः॑ । गोषु॑ । यो॒धाः ।
इन्द्रः॑ । ए॒षा॒म् । दृं॒हि॒ता । माहि॑नऽवान् । उत् । गो॒त्राणि॑ । स॒सृ॒जे॒ । दं॒सना॑ऽवान् ॥

सायणभाष्यम्

हे इन्द्र सत्रे प्रवृत्तानामस्माकं ये पितरोऽङ्गिरसो गोषु पणिभिरपहृतेषु तन्निमित्तं योधा योद्धारो वर्तन्ते तेषामेषां मर्त्येषु निन्दिता दूषको नकिर्न कश्चिदस्ति । कुत इत्यत आह । माहिनावान्महिमोपेतो दंसनावान्वृत्रहननादिकर्मवानिन्द्र एषामङ्गिरसां दृंहितानि समृद्धानि गोत्राणि गवां वृंदान्यृत्ससृजे । तेभ्योऽङ्गिरोभ्यो ददौ । निन्दिता । निदि कुत्सायामित्यस्य तृचि रूपम् । मर्त्येषु । वस्वादित्वात्स्वार्थिको यत् । यतोऽनाव इत्याद्युदात्तत्वम् । योधाः । युध सम्प्रहार इत्यस्य पचाद्यचि रूपम् । दृंहिता । दृह दृहि वृद्धावित्यस्य निष्ठायां रूपम् । महिनावान् । महेरिनण्चेतीनण्प्रत्ययः । तदस्यास्तीति मतुप् । महिनावावानिति तस्य संज्ञा । मतौ बह्वचोऽनजिरादीनामिति संहितायां दीर्घः । गोत्राणि । गवां समूह इत्यर्थे ख्हलुगोरधादित्यनुवृत्ताविनित्रकट्यचश्चेति गोशब्दात्प्रप्रत्ययः । प्रत्ययस्वरः । ससृजे । सृज विसर्ग इत्यस्य लिटि रूपं ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५