मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३९, ऋक् ७

संहिता

ज्योति॑र्वृणीत॒ तम॑सो विजा॒नन्ना॒रे स्या॑म दुरि॒ताद॒भीके॑ ।
इ॒मा गिरः॑ सोमपाः सोमवृद्ध जु॒षस्वे॑न्द्र पुरु॒तम॑स्य का॒रोः ॥

पदपाठः

ज्योतिः॑ । वृ॒णी॒त॒ । तम॑सः । वि॒ऽजा॒नन् । आ॒रे । स्या॒म॒ । दुः॒ऽइ॒तात् । अ॒भीके॑ ।
इ॒माः । गिरः॑ । सो॒म॒ऽपाः॒ । सो॒म॒ऽवृ॒द्ध॒ । जु॒षस्व॑ । इ॒न्द्र॒ । पु॒रु॒ऽतम॑स्य । का॒रोः ॥

सायणभाष्यम्

तमसो रात्रेः सकाशाद्विजानन्विशेषेण जानन् प्रादुर्भवन्सूर्यात्मक इन्द्रो ज्योतिर्वृणीत । जदद्व्यवहारनिर्वाहकं प्रकाशं समभक्त । यद्वा तमसस्तमोरूषाद्वृत्रादेर्विजानन् प्रदुर्भवन् । वृत्रं हत्वा प्रकाशमवृणीत । वयं दुरितात्पापादारे दुरे पाअवर्जिताः । सन्तोऽभीके भयरहिते स्थाने स्याम । भवेम । सोमपाः सोमस्य पातरत एव सोमवृद्ध सोमपानेषु वृद्ध हे इन्द्र पुरुतमस्य । पुरून्बहूञ्शत्रून् तामयति ग्लापयतीति पुरुतमः । तादृशस्य कारोः स्तोत्रं कुर्वाणस्य ऋत्विज इमाः स्तुतिलक्शणा गिरो वाचो जुषस्व । सेवस्व । वृणीत । वृङ् सम्भक्तावित्यस्य लङि रूपम् । विजानन् । ज्ञा अवबोधने । विशेषेण ज्ञानं प्रकाशः । प्रत्ययस्वरः । अभीके । नविद्यते भीर्यस्मिन् । ततः शेषाद्विभाषा । पा. ६-२-१७३ । इति पूर्वस्यान्तोदात्तत्वम् । पुरुतमस्य तमुग्लान इत्यस्माण्यन्तात्पचाद्यचि परादिश्छन्दसि बहुलमित्युत्तरपदाद्युदात्तत्वं ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६