मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ४०, ऋक् १

संहिता

इन्द्र॑ त्वा वृष॒भं व॒यं सु॒ते सोमे॑ हवामहे ।
स पा॑हि॒ मध्वो॒ अन्ध॑सः ॥

पदपाठः

इन्द्र॑ । त्वा॒ । वृ॒ष॒भम् । व॒यम् । सु॒ते । सोमे॑ । ह॒वा॒म॒हे॒ ।
सः । पा॒हि॒ । मध्वः॑ । अन्ध॑सः ॥

सायणभाष्यम्

इन्दौ स्रवति सोमरसे रमते क्रीडतीतीन्द्रः । यद्वा इदं सर्वं जगत्साक्शाद्दर्शयतीतीन्रस्ः । तस्य सम्बुद्धिः । हे इन्द्र वृषभं कामानां वर्षकं त्वा त्वां सुते ग्रावभिरभिशुते सोमे वयं हवामहे । सोमपानार्थमाह्वयामः । स त्वं मध्वो मदकरमन्धसोऽन्नलक्शणं सोमं पाहि । पिब । इन्द्रशब्दं यास्को बहुधा निर्विवेच । इन्द्र इरां दृणातीति वेरां ददातीति वेरां दधातीति वेरां दारयतीति देनं प्राणैः समैन्धंस्तदिन्द्रस्येन्द्रत्वमिति । यत्र यत्र योऽर्धोऽनुगुणस्तत्रसोऽर्थः स्वीकार्यः । इन्दन्दर्शनादितौपमन्यवः । इदं ब्रह्म साक्शात्पश्यतीतीन्द्रः । तथा चारण्यके श्रूयते । स एतमेव पुरुषं ब्रह्मततमम पश्यदिदमदर्शमिती । तस्मादिन्द्रो नामेदन्द्रो ह वै नाम तमिदन्द्रं सन्तमिन्द्र इत्याचक्शते परोक्षेण परोक्शप्रिया इव हि देवाः । ऐ. आ. २-४-३ । इति इदि परमैश्वर्य इति धातुः । स्वमायया जगद्रूपत्वं परमैश्वर्यम् । अनेनाभिप्रायेण श्रूयते । इन्द्रो मायाभिः पुरुरूप ईयत इति । इन्दुशब्द उपपदे रमतेरन्येभ्योऽपि दृश्यत इति डः । पूर्वपदस्योकारलोपः । इदि परमैश्वर्य इत्यस्मादृज्रेन्द्राग्रेत्यादिना रन्प्रत्ययान्तत्वेन निपातितः । एवमेतानि निर्वचनानि द्रष्टव्यानि । आमन्त्रिताद्युदात्तत्वम् । हुवामहे । ह्वयतेर्बहुलं छन्दसीति सम्प्रसारणे लिटि रूपम् । मध्वः । मधुशब्दः फलिपाटीत्यादिनोन्प्रत्ययान्तः । आगमानुशासनस्यानित्यत्वान्नुमभावः । संज्ञापुर्वकस्य विधेरनित्यत्वाद्गुणाभावः । यणादेशः । अन्धसः । अदेर्नुम्धश्चेत्यसुन् । नित्स्वरः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः