मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ४०, ऋक् २

संहिता

इन्द्र॑ क्रतु॒विदं॑ सु॒तं सोमं॑ हर्य पुरुष्टुत ।
पिबा वृ॑षस्व॒ तातृ॑पिम् ॥

पदपाठः

इन्द्र॑ । क्र॒तु॒ऽविद॑म् । सु॒तम् । सोम॑म् । ह॒र्य॒ । पु॒रु॒ऽस्तु॒त॒ ।
पिब॑ । आ । वृ॒ष॒स्व॒ । ततृ॑पिम् ॥

सायणभाष्यम्

ब्राह्मणाच्छंसिनः प्रातःसवन इन्द्र क्रतुविदमिति शस्त्रयाज्या । सूत्रितं च । इन्द्र क्रतुविदं सुतमिति याज्या । आ. ५-१० । हे इन्द्र क्रतुविदं क्रतोः प्रज्ञाया लम्भकं सुतमभिशुतमिमं सोमं हर्य । पातुं कामयस्व । हे पुरुष्टुत पुरुभिर्बहुभिः स्तुतेन्द्र ताशृपिं तर्पकामाप्यायनकारिणमिमं सोमं पिब । पीतमिमं सोममा वृषस्व । जठरे सिञ्च । यथा नाभेरधो न पतति तथा धारयेति भावः । हर्य । यर्य गतिकान्त्योरित्यस्य लोटि रूपम् । निघातः पुरुष्टुत । स्तुतस्तोमयोश्छन्दसीति सम्हितायां षत्वम् । वृषस्व । वृश सेचने इत्यस्य लोटि रूपम् । आङ उत्तरत्वान्निघातः । तातृपिम् । तृप प्रीण इत्यस्माच्छन्दसि सदादिभ्यो दर्शनादिति किन् । तस्य लिड्वद्भावाद्द्विर्वचनादि । संहितायामन्येषामपीत्यभ्यासस्य दीर्घः । नित्त्वादाद्युदात्तः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः