मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ४०, ऋक् ३

संहिता

इन्द्र॒ प्र णो॑ धि॒तावा॑नं य॒ज्ञं विश्वे॑भिर्दे॒वेभि॑ः ।
ति॒र स्त॑वान विश्पते ॥

पदपाठः

इन्द्र॑ । प्र । नः॒ । धि॒तऽवा॑नम् । य॒ज्ञम् । विश्वे॑भिः । दे॒वेभिः॑ ।
ति॒रः । स्त॒वा॒न॒ । वि॒श्प॒ते॒ ॥

सायणभाष्यम्

हे स्तवान स्तोतृभिः सूयमान विश्वते विशां मरुतां पते हे इन्द्र विश्वेभिर्देवेभिः सर्वैर्यजनीयैर्देवैः सहितस्त्वं धितावानम् । वन्यते सम्भज्यत इति वानं हविः । धितं निहितं हविर्यस्य तम् । संभृतहविश्कमित्यर्थः । अस्मदीयमिमं यज्ञं प्रतिरः । प्रकर्षेण वर्धय । हविः स्वीकरणेन सम्पूर्णं कुर्विति भावः ॥ णः । उपसर्गाद्बहुलमिति संहितायां णत्वम् । धितावानम् । डुधाञ् धारनपोशणयोरित्यस्मान्निष्ठा । बहुव्रीहौ पूर्वपदस्वरः । तिरः । तरतेर्व्यत्ययेन शः । प्रत्ययस्वरः । स्तवान । ष्टुञ् स्तुतौ । सम्यानच् स्तुव इत्युपपदाभावेऽपि कर्मण्यानच् प्रत्ययः । आमन्त्रितत्वान्निघातः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः