द॒धि॒ष्वा ज॒ठरे॑ सु॒तं सोम॑मिन्द्र॒ वरे॑ण्यम् ।
तव॑ द्यु॒क्षास॒ इन्द॑वः ॥
द॒धि॒ष्व । ज॒ठरे॑ । सु॒तम् । सोम॑म् । इ॒न्द्र॒ । वरे॑ण्यम् ।
तव॑ । द्यु॒क्षासः॑ । इन्द॑वः ॥
हे इन्द्र वरेण्यं सर्वैर्वरणीयं सुतमभिषुतं सोमं जठरे दधिष्व्कधारय । इन्दवो दीप्ता इमे सोमास्तव द्युक्षासः । दिवि क्शियन्ति निवसन्तीति द्युक्षासः । अतस्त्वं तान् धारयेति भावः ॥ दधिष्व । दधातेर्लोटि रूपम् । आगमा अनुदात्ता इतीटोऽनुदात्तत्वात्प्रत्ययस्वरः वरेण्यण् । वृङ् सम्भक्तौ । वृङ् एण्य । इत्येण्प्रत्ययः । वृषादित्वादाद्युदात्तः । क्युक्षासः । क्शियतेरन्येभ्योऽपि दृश्यत इति डप्रत्ययः । कृदुत्तरपदस्वरः ॥ ५ ॥