मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ४०, ऋक् ९

संहिता

यद॑न्त॒रा प॑रा॒वत॑मर्वा॒वतं॑ च हू॒यसे॑ ।
इन्द्रे॒ह तत॒ आ ग॑हि ॥

पदपाठः

यत् । अ॒न्त॒रा । प॒रा॒ऽवत॑म् । अ॒र्वा॒ऽवत॑म् । च॒ । हू॒यसे॑ ।
इन्द्र॑ । इ॒ह । ततः॑ । आ । ग॒हि॒ ॥

सायणभाष्यम्

हे इन्द्र यद्यस्मिन्परावतमतिविप्रकृष्टस्य देशस्यार्वावतं सन्निकृष्टस्य देशस्य चान्तरा तयोर्मध्यदेशे हूयसे सम्यगिज्यसे ततस्तस्माद्देशादिहास्मिन्यज्ञ आ गहि । सोमपानार्थमागच्छ । परावतं अर्वावतम् । अन्तरान्तरेण युक्ते । पा. २-३-४ । इति द्वितीया । ततः । पञ्चम्यास्तसिल् । लित्स्वरः ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः