मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ४१, ऋक् २

संहिता

स॒त्तो होता॑ न ऋ॒त्विय॑स्तिस्ति॒रे ब॒र्हिरा॑नु॒षक् ।
अयु॑ज्रन्प्रा॒तरद्र॑यः ॥

पदपाठः

स॒त्तः । होता॑ । नः॒ । ऋ॒त्वियः॑ । ति॒स्ति॒रे । ब॒र्हिः । आ॒नु॒षक् ।
अयु॑ज्रन् । प्रा॒तः । अद्र॑यः ॥

सायणभाष्यम्

हे इन्द्र सोऽस्मदीये यज्ञे होता ऋत्विक् तवाह्वानार्थमृत्वियः प्राप्तकालः सन् सत्तो निशण्णो वर्तते । तथा बर्हिरानुषक् अनिषक्तं परस्परसम्बद्धं यथा भवति तथा तिस्तिरे । हविष्वासन्नेषु स्तीर्णमभूत् । तथा प्रातः प्रातः सवने सोमाभिषवार्थमद्रयो ग्रावाणो७युज्रन् । परस्परं सण्गता अभूवन् । तस्मात्सोमपानार्थं त्वमागचेति भावः । सत्तः । षद्लृ विशरणादिष्वित्यस्माद्गत्यर्था कर्मकश्लिषेत्यादिना । पा. ३-४-७२ । कर्तरि क्तः । सर्वविधीनां छन्दसि विकल्पितत्वादत्र निष्ठातकारस्य नत्वाभावः । ऋत्वियः । ऋतुशब्दाच्छन्दसि घसिति घस्प्रत्ययः । घस्येयादेशः । सितीति पदसंज्ञायामोर्गुण इति भसंज्ञाधीनो गुणो न भवति । यणादेशः । प्रत्ययस्वरः । तिस्तिरे । स्तॄञ् अच्छादन इत्यस्य कर्मणि लट्यॄत इद्धातोरितीत्वम् । द्विर्वचने शर्पूर्वाः खय इति तकारस्य शेषः । लिटस्तझयोरेशिरेजिति तप्रत्ययस्यैशित्यादेशः । पादादित्वादनिघातः । प्रत्ययस्वरः । आनुषक् । षन्जसङ्गे । क्विप् । अनिदितामिति नलोपः । आङन्वोरुपसर्गयोः प्राक्प्रयोगः । गतिसमासः । कृदुत्तरपदस्वरः । अयुज्रन् । युजिर् योग इत्यस्य लुङि च्लीरिरितो वेत्यङादेशः । बहुलं छन्दसीति रुडागमः । आदादित्वादनिघातः । अडागमस्वरः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः