मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ४१, ऋक् ३

संहिता

इ॒मा ब्रह्म॑ ब्रह्मवाहः क्रि॒यन्त॒ आ ब॒र्हिः सी॑द ।
वी॒हि शू॑र पुरो॒ळाश॑म् ॥

पदपाठः

इ॒मा । ब्रह्म॑ । ब्र॒ह्म॒ऽवा॒हः॒ । क्रि॒यन्ते॑ । आ । ब॒र्हिः । सी॒द॒ ।
वी॒हि । शू॒र॒ । पु॒रो॒ळाश॑म् ॥

सायणभाष्यम्

ब्रह्माणि स्तोत्राणि स्तुत्यतया वहतीति ब्रह्मवाहा ब्रह्मणा स्तोत्रेण प्राप्यत इति वा । हे ब्रह्मवाह इन्द्र तुभ्यमिमेमानि ब्रह्म ब्रह्माणि स्तोत्राण्यस्माभिः क्रियन्ते । अतो बर्हिरा सीद । स्तुत्यतया बर्हिषि यज्ञ् उपविश । हे शूर समर्धेन्द्रास्माभिर्दीयमानमिमं पुरोडाशं पुरोडाशाख्यं हविर्वीहि । भक्षय । ब्रह्मवाहः । वह प्रापण इत्यस्माद्वहिहाधाञ्भ्यश्छन्दसीत्यस्य्न् । णीदित्यनुवृत्तेरुपधावृद्धिः । आमन्त्रितत्वान्निघातः । क्रियन्ते । करोतेः कर्मणि यक् । रिङ् शयग्लिंक्ष्विति रिङादेशः । प्रत्ययस्वरः । पादादित्वादनिघातः । बर्हिः । कालाध्वनोरत्यन्त संयोगे द्वितीया । वीहि । वी कान्त्यादिषु । लोटि रूपम् । हेर्ङुत्त्वादुदात्तः पुरोळाशम् । दाशृ दान इत्यस्मातुरस्पूर्वान्मन्त्रे श्वेतवहोक्थशस्पुरोडाशोण्विन् । पुरोदाशन्त एनमिति । निपातनाद्दकारस्य ळकारः । कृदुत्तरपदस्वरः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः