मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ४१, ऋक् ४

संहिता

रा॒र॒न्धि सव॑नेषु ण ए॒षु स्तोमे॑षु वृत्रहन् ।
उ॒क्थेष्वि॑न्द्र गिर्वणः ॥

पदपाठः

र॒र॒न्धि । सव॑नेषु । नः॒ । ए॒षु । स्तोमे॑षु । वृ॒त्र॒ऽह॒न् ।
उ॒क्थेषु॑ । इ॒न्द्र॒ । गि॒र्व॒णः॒ ॥

सायणभाष्यम्

हे गिर्वणो गीर्भिः स्तुतिभिर्वननीय वृत्रहन् वृत्रस्य हन्तर्हे इन्द्रनोऽस्माकं सम्बन्धिषु त्रिषु सवनेषेषु क्रियमाणेषु स्तोमेषु स्तोत्रेषूक्थेषु शस्त्रेषु च रारन्धि । रमस्व । रारन्धि । रमतेर्लोटि बहुलं छन्दसीति शपः श्लुः । छन्दस्युभयथेति हेरार्धधातुकत्वेनाङुत्त्वादङितश्चेति हेर्धिः । सवनेशु । सूयते सोमो येष्वित्यधिकरणे सुनोतेर्ल्युट् । लित्स्वरः । णः । सनो नकारस्य नश्च धातुस्थोरुषभ्य इति संहितायां णत्वं ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः