मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ४१, ऋक् ५

संहिता

म॒तयः॑ सोम॒पामु॒रुं रि॒हन्ति॒ शव॑स॒स्पति॑म् ।
इन्द्रं॑ व॒त्सं न मा॒तरः॑ ॥

पदपाठः

म॒तयः॑ । सो॒म॒ऽपाम् । उ॒रुम् । रि॒हन्ति॑ । शव॑सः । पति॑म् ।
इन्द्र॑म् । व॒त्सम् । न । मा॒तरः॑ ॥

सायणभाष्यम्

हे इन्द्र मतयोऽस्माभिः क्रियमाणाः स्त्तुतय उरुं महान्तं सोमपां सोमस्य पातारं शवसो बलस्य पतिमिन्द्र त्वां रिहन्ति । लिहन्ति । तत्र दृष्टान्तः । वत्स्ं न । यथा वत्सं मातरो धेनवो लिहन्ति तद्वत् । मतयः । मन ज्ञान इत्यस्मात्कर्मणि मन्त्रे वृषेत्यादिना क्तिन्नुदात्तः । उरुम् । ऊर्णुञ् आच्छादन इत्यस्मान्महत्यर्थे गम्यमाने महति ह्रस्वश्च । उ. १.३२ । इति कुप्रत्ययो धातोर्ह्रस्वश्च । प्रत्ययस्वरः । रिहन्ति लिह अस्वादन इत्यस्य लटि रूपम् । रलयोरभेदः । प्रत्ययस्वरः । शवसस्पतिमिति संहितायां षष्ठ्याः प्रतिपुत्रपृष्ठेत्यादिना विसर्जनीयस्य सत्वम् । वत्सम् । वद व्यक्तायां चाचि । अस्माद्वृतॄवदिहनीत्यादिना सप्रत्ययः । वदत्यभीक्ष्णं मातरमिति वत्सो गोबालः । प्रत्ययस्वरः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः