मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ४१, ऋक् ७

संहिता

व॒यमि॑न्द्र त्वा॒यवो॑ ह॒विष्म॑न्तो जरामहे ।
उ॒त त्वम॑स्म॒युर्व॑सो ॥

पदपाठः

व॒यम् । इ॒न्द्र॒ । त्वा॒ऽयवः॑ । ह॒विष्म॑न्तः । ज॒रा॒म॒हे॒ ।
उ॒त । त्वम् । अ॒स्म॒ऽयुः । व॒सो॒ इति॑ ॥

सायणभाष्यम्

हे इन्द्र त्वायवो यज्ञार्थं त्वामात्मन इच्छन्तस्त्वत्कामाः सन्तो हविष्मन्तः संभृत हविष्का वयं जरामहे । त्वां स्तुमः । हे वसो सर्वस्य वासक इन्द्र उत त्वमप्यस्मयुरस्मदीयहविः स्वीकरणार्थमस्मानात्मन इच्छन् भव । त्वायवः । त्वामिच्छन्तीत्यर्थे सुपः आत्मनः क्यच् । प्रत्ययोत्तरपदयोश्चेति मतर्यन्तस्य त्वादेशः । क्याच्छन्दसीत्युप्रत्ययः । त्वद्यव इति प्राप्तौ युष्मदस्मदोरनादेश इत्यविभक्तावपि हलादौ व्यत्ययेनात्वम् । प्रत्ययस्वरः । हविष्मन्तः । तसौ मत्वर्थ इति भसंज्ञायां सकारस्य रुत्याभावः । स्वरविधौ व्यञ्जनमविद्यमानवदिति परिभाषानाश्रयनान्मतुप उदात्तताभवः । इसि प्रत्ययस्वरः । जरामहे । जरतिः स्तुतिकर्मेति यास्कः । अस्मयुः अस्मानिच्छतीत्यर्थे सुपः क्यच् । तस्मादुप्रत्ययः । पूर्वपदान्तलोपश्छान्दसः । प्रत्ययस्वरः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः