मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ४१, ऋक् ८

संहिता

मारे अ॒स्मद्वि मु॑मुचो॒ हरि॑प्रिया॒र्वाङ्या॑हि ।
इन्द्र॑ स्वधावो॒ मत्स्वे॒ह ॥

पदपाठः

मा । आ॒रे । अ॒स्मत् । वि । मु॒मु॒चः॒ । हरि॑ऽप्रिय । अ॒र्वाङ् । या॒हि॒ ।
इन्द्र॑ । स्व॒धा॒ऽवः॒ । मत्स्व॑ । इ॒ह ॥

सायणभाष्यम्

हे हरिप्रिय हरी अशौ प्रियौ यस्य तादृश हे इन्द्र अस्मदस्मत्त आरे दूरे रथे योजतावशौ मा वि मुमुचः । मा विमोचय । ताभ्यामुपेत एवार्वाङ् अस्मादाभिमुख्येन याहि । आगच्छ । हे स्वधावः सोमलक्षणान्नवन्निन्द्र इहास्मिन्देवयजने मत्स्व । सोमं पीत्वा हृष्टो भव । अस्मत् । अस्मच्छब्दस्य पञ्चमीबहुवचनस्य पञ्चम्या अत् । पा. ७-१-३१ । इत्यदादेशः । मुमुचः । मुच्लृ मोक्शण इत्यस्य ण्यन्तस्य छान्दसे लुङि चङि रूपम् । अभ्यासस्य दीर्घाभावश्छान्दसः । न माङ्योग इथडभावः । निघातः । । हरिप्रिय । आमन्त्रितस्य पादादित्वात्क्षाष्ठिकमाद्युदात्तत्वम् । मत्स्व । मदि स्तुत्यादिष्वित्यस्य लोटि बहुलं छन्दसीति विकरणस्य लुक् । आमन्त्रितस्याविद्यमानत्वेन पादादित्वादनिघातः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः