उप॑ नः सु॒तमा ग॑हि॒ सोम॑मिन्द्र॒ गवा॑शिरम् ।
हरि॑भ्यां॒ यस्ते॑ अस्म॒युः ॥
उप॑ । नः॒ । सु॒तम् । आ । ग॒हि॒ । सोम॑म् । इ॒न्द्र॒ । गोऽआ॑शिरम् ।
हरि॑ऽभ्याम् । यः । ते॒ । अ॒स्म॒ऽयुः ॥
हे इन्द्र नोऽस्मदीयं सुतमभिषुतं गवाशिरं पयसा मिश्रितं सोमं प्रति उपा गहि । समीप आगच्छ । यतो हरिभ्यामश्वाभ्यां युक्तस्तव रथोऽस्मयुरस्मास्कामयमानो वर्तते ॥ गवाशिरम् । आङ् पूर्वस्य श्रीणातेः क्विप्यपस्पृधेथामानृचुरित्यादिनाशिरित्यादेशः । बहुव्रीहौ पूर्वपदस्वरः ॥ १ ॥