मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ४२, ऋक् २

संहिता

तमि॑न्द्र॒ मद॒मा ग॑हि बर्हि॒ःष्ठां ग्राव॑भिः सु॒तम् ।
कु॒विन्न्व॑स्य तृ॒प्णवः॑ ॥

पदपाठः

तम् । इ॒न्द्र॒ । मद॑म् । आ । ग॒हि॒ । ब॒र्हिः॒ऽस्थाम् । ग्राव॑ऽभिः । सु॒तम् ।
कु॒वित् । नु । अ॒स्य॒ । तृ॒प्णवः॑ ॥

सायणभाष्यम्

हे इन्द्र ग्रावभिः सुतमभिषुतं बर्हिःष्ठां बर्हिषि स्थितं मदम् । मद्यतेऽनेनेति मदः सोमः । तमिमं सोममा गहि । आगच्छ । कुवित्प्रभूतं यथा भवति तथास्य सोमस्य पाने नु क्षिप्रं तृप्णवः । तृप्तो भव । मदम् । मदी हर्षे । मदोऽनुपसर्ग इत्यप्प्रत्ययः । तस्य पित्त्वादनुदात्तत्वे धातुस्वरः । बर्हिःष्ठाम् । ष्ठा गतिनिवृत्तौ । क्विप् । संहितायां पूर्वपदसकारस्यादेशप्रत्यययोरिति षत्वम् । ष्टुत्वम् । कृदुत्तरपदस्वरः । तृष्णवः । तृप प्रीणन इत्यस्य लेट्यडागमः । कुविद्योगादनिघातः । क्षुभ्नादिषु नृनमन तृप्नोतीति पठितम् । तथापि सर्वविधीनां छन्दसि विकल्पितत्वादत्र णत्वप्रतिषेधो न भवति । प्रत्ययस्वरः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः