मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ४२, ऋक् ३

संहिता

इन्द्र॑मि॒त्था गिरो॒ ममाच्छा॑गुरिषि॒ता इ॒तः ।
आ॒वृते॒ सोम॑पीतये ॥

पदपाठः

इन्द्र॑म् । इ॒त्था । गिरः॑ । मम॑ । अच्छ॑ । अ॒गुः॒ । इ॒षि॒ताः । इ॒तः ।
आ॒ऽवृते॑ । सोम॑ऽपीतये ॥

सायणभाष्यम्

हे इन्द्र इषितास्त्वदर्थं प्रेरिता इथ्थेथमनेन प्रकारेणोच्यमाना मम गिरः स्तुतिलक्षणा वाच इन्द्र त्वामितोऽस्माद्देवयजनदेशादच्छागुः । अभिमुख्येन गच्छन्तु । किमर्थम् । सोमपीतये सोमपानार्थमावृते त्वामावर्तयितुम् । इत्था । इदं शब्दात्था हेतौ च छन्दसीति व्यत्ययेन थाप्रत्ययः । इदम एतेतौ रथोरितीदित्यादेशः । प्रत्ययस्वरः । आच्छ । आच्छ गत्यर्थवदेष्विति गतिसंज्ञा । आगुः । इण् गतावित्यस्य लुङि रूपम् । निघातः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः