मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ४२, ऋक् ४

संहिता

इन्द्रं॒ सोम॑स्य पी॒तये॒ स्तोमै॑रि॒ह ह॑वामहे ।
उ॒क्थेभि॑ः कु॒विदा॒गम॑त् ॥

पदपाठः

इन्द्र॑म् । सोम॑स्य । पी॒तये॑ । स्तोमैः॑ । इ॒ह । ह॒वा॒म॒हे॒ ।
उ॒क्थेभिः॑ । कु॒वित् । आ॒ऽगम॑त् ॥

सायणभाष्यम्

स्तोमैस्त्रिवृत्पञ्चदशादिस्तोमसाध्यैः स्तोत्रैरुक्थेभिरुक्थैः शस्त्रैश्चेह कर्मणि सोमस्य पीतये सोमपानार्थमिन्द्रं हवामहे । वयमाह्वयामः । कविद्भहुवारमाहूतः स इन्द्र आगमत् । यज्ञं प्रत्यागच्छतु ॥ आगमत् । गमेर्लेट्यडागः । आगमा अनुदात्ता इत्यटोऽनुदात्तत्वाद्धातुस्वरः । तिङि चोदात्तवतीति गतेर्निघातः । कुविद्योगादनिघातः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः