मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ४२, ऋक् ५

संहिता

इन्द्र॒ सोमा॑ः सु॒ता इ॒मे तान्द॑धिष्व शतक्रतो ।
ज॒ठरे॑ वाजिनीवसो ॥

पदपाठः

इन्द्र॑ । सोमाः॑ । सु॒ताः । इ॒मे । तान् । द॒धि॒ष्व॒ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।
ज॒ठरे॑ । वा॒जि॒नी॒व॒सो॒ इति॑ वाजिनीऽवसो ॥

सायणभाष्यम्

हे शतक्रतो इन्द्र इमे सोमाः सुताः । ग्रावभिस्त्वदर्थमभिशुताः । हे वाजिनीवसो अन्नधन । यद्वा । वाजोऽन्नमासु फलत्वेनास्तीति वाजिन्यः क्रियाः । तासां वासक हे इन्द्र तान्सोमरसान् जठरे दधिष्व । धारय ॥ वाजिनीवसो । वाजशब्दान्मत्वर्थे*त इनिठनावितीनिप्रत्ययः । ऋन्नेभ्यो ङीबिति ङीप् । तासां वसो । सम्भ्द्धौ चेति गुणः । आमन्त्रितत्वादाष्टमिकमनुदात्तत्वं ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः