मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ४२, ऋक् ७

संहिता

इ॒ममि॑न्द्र॒ गवा॑शिरं॒ यवा॑शिरं च नः पिब ।
आ॒गत्या॒ वृष॑भिः सु॒तम् ॥

पदपाठः

इ॒मम् । इ॒न्द्र॒ । गोऽआ॑शिरम् । यव॑ऽआशिरम् । च॒ । नः॒ । पि॒ब॒ ।
आ॒ऽगत्य॑ । वृष॑ऽभिः । सु॒तम् ॥

सायणभाष्यम्

हे इन्द्र गवाशिरं गव्यमिश्रणोपेतं सोमं तथा यवाशिरं यवमिश्रणोपेतं वृषभिर्ग्रावभिः सुतमभिषुतं नोऽस्मदीयमिमं सोमं देवयजमागत्य पिब ॥ गवाशिरं यवाशिरमित्यत्र आङ् पूर्वस्य श्रीणातेः क्विप्यपस्पृधेथा मानृचुरित्यादिनाशिरित्यादेशः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः