मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ४२, ऋक् ८

संहिता

तुभ्येदि॑न्द्र॒ स्व ओ॒क्ये॒३॒॑ सोमं॑ चोदामि पी॒तये॑ ।
ए॒ष रा॑रन्तु ते हृ॒दि ॥

पदपाठः

तुभ्य॑ । इत् । इ॒न्द्र॒ । स्वे । ओ॒क्ये॑ । सोम॑म् । चो॒दा॒मि॒ । पी॒तये॑ ।
ए॒षः । र॒र॒न्तु॒ । ते॒ । हृ॒दि ॥

सायणभाष्यम्

हे इन्द्र तुभ्येत्तुभ्यमेव पीतये पानार्थं स्वे स्वकीय ओक्ये स्थाने जठरेऽभिषुतमिमं सोमं चोदामि । प्रेरयामि । एष पीतः सोमस्ते तव हृदि हृदये ररन्तु । अत्यर्थं रमताम् । तुभ्य । युश्मच्छब्दस्य चतुर्थ्येकवचने तुभ्यमह्याविति तुभ्याचेशः । सुपां सुलुगिति सुपो लुक् । ङयि चेत्याद्युदात्तः । ओक्ये । वस्वादित्वात्स्वार्थिको यत्प्रत्ययः । तित्स्वरितः । चोदामि । चुद प्रेरणे । ण्यन्तस्य लटि रूपम् । बहुलमन्यत्रापीति णेर्लुक् । निघातः । रारन्तु । रमु क्रीडायामित्यस्य यङ् लुकि लोटि सर्वविधीनां छन्दसि विकल्पितत्वादत्राभ्यासस्य नुमभावः । संहितायामान्येषामपीत्यभ्यासस्य दीर्घः । निघातः । हृदि । हृदयशब्दस्य पद्दन्नोमाशृदित्यादिना हृदादेशः । ऊदिदमिति विभक्तेरुदात्तत्वं ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः