मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ४३, ऋक् १

संहिता

आ या॑ह्य॒र्वाङुप॑ वन्धुरे॒ष्ठास्तवेदनु॑ प्र॒दिवः॑ सोम॒पेय॑म् ।
प्रि॒या सखा॑या॒ वि मु॒चोप॑ ब॒र्हिस्त्वामि॒मे ह॑व्य॒वाहो॑ हवन्ते ॥

पदपाठः

आ । या॒हि॒ । अ॒र्वाङ् । उप॑ । व॒न्धु॒रे॒ऽस्थाः । तव॑ । इत् । अनु॑ । प्र॒ऽदिवः॑ । सो॒म॒ऽपेय॑म् ।
प्रि॒या । सखा॑या । वि । मु॒च॒ । उप॑ । ब॒र्हिः । त्वाम् । इ॒मे । ह॒व्य॒ऽवाहः॑ । ह॒व॒न्ते॒ ॥

सायणभाष्यम्

हे इन्द्र वन्धुरेष्ठाः । वन्धुरशब्देनेषाद्वयसम्भन्धस्थानमभिधीयते । तेन तद्विशिष्तो रथो लक्ष्यते । तस्मिन् रथे तिष्ठन् त्वमर्वाङस्मदभिमुखः सन् आ अभिलक्श्योपयाहि । समीप आगच्छ । प्रदिवः प्रत्नं पूर्वक्रमगतं तवेत्तवैव सम्बन्धि सोमपेयं सोमपानं त्वमनु उद्दिश्य प्रिया तव प्रियतमौ सखाय समानख्यानावश्यौ बर्हिरुप बर्हिषः समीपे विमुच । विमुञ्च । हव्यवाहः । हव्यं वहन्तीति हव्यवाहः । इमे ऋत्विजस्त्वां हवन्ते । सोमपानार्थमह्वयन्ति । तस्मादागच्छेति भावः ॥ वन्धुरेष्ठाः । तिष्थतेर्विच् । तत्पुरुषे कृति बहुलमिति सप्तम्या अलुक् । प्रदिवः । सकारान्तमव्ययम् । सोमपेयम् । पा पान इत्यस्य भावेऽचो यदिति यत्प्रत्ययः । ईद्यतीतीत्वम् । आर्धधातुकलक्षणो गुणः । यतोऽनाव इत्याद्युदात्तत्वम् । समासे कृदुत्तरपदस्वरः । मुच । मुञ्चतेर्लोटागमानुशासनस्यानित्यत्वान्नुमभावः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः