मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ४३, ऋक् ३

संहिता

आ नो॑ य॒ज्ञं न॑मो॒वृधं॑ स॒जोषा॒ इन्द्र॑ देव॒ हरि॑भिर्याहि॒ तूय॑म् ।
अ॒हं हि त्वा॑ म॒तिभि॒र्जोह॑वीमि घृ॒तप्र॑याः सध॒मादे॒ मधू॑नाम् ॥

पदपाठः

आ । नः॒ । य॒ज्ञम् । न॒मः॒ऽवृध॑म् । स॒ऽजोषाः॑ । इन्द्र॑ । दे॒व॒ । हरि॑ऽभिः । या॒हि॒ । तूय॑म् ।
अ॒हम् । हि । त्वा॒ । म॒तिऽभिः॑ । जोह॑वीमि । घृ॒तऽप्र॑याः । स॒ध॒ऽमादे॑ । मधू॑नाम् ॥

सायणभाष्यम्

देव द्योतमान हे इन्द्र नोऽस्माकं नमोवृधं नमसोऽन्नस्य वर्धकमिमः यज्ञं हरिभिरश्वैः सजोषाः सहप्रीतिस्त्वं तूयं क्षिप्रमा याहि । घृतप्रयाः । घृतसहितानि प्रयांस्यन्यरूपाणि हवींषि यस्य स तथोक्तः । तादृशोऽहं मधूनां सेमानां सधमादे । सह माद्यन्ति यत्र सोम इति सधमादः । तस्मिन् स्थाने मतिभिः स्तुतिभिस्त्वा त्वां जोहवीमि हि । भृशमाह्वयामि खलु । जोहवीमि । यङ् लुक्यभ्यस्तस्य चेति सम्प्रसारणम् । गुणो यङ् लुकोरित्यभ्यासस्य गुणः । यङो वेतीडागमः । हियोगादनिघातः । अभ्यस्तानामादिरित्याद्युदात्तः । घ्तुअप्रयाः । घृ क्षरण दीप्त्योरित्यस्मादञ्जिघृषिभ्यः क्त इति क्तप्रत्ययः । बहुव्रीहौ पूर्वपदस्वरः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः