मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ४३, ऋक् ४

संहिता

आ च॒ त्वामे॒ता वृष॑णा॒ वहा॑तो॒ हरी॒ सखा॑या सु॒धुरा॒ स्वङ्गा॑ ।
धा॒नाव॒दिन्द्र॒ः सव॑नं जुषा॒णः सखा॒ सख्यु॑ः शृणव॒द्वन्द॑नानि ॥

पदपाठः

आ । च॒ । त्वाम् । ए॒ता । वृष॑णा । वहा॑तः । हरी॒ इति॑ । सखा॑या । सु॒ऽधुरा॑ । सु॒ऽअङ्गा॑ ।
धा॒नाऽव॑त् । इन्द्रः॑ । सव॑नम् । जु॒षा॒णः । सखा॑ । सख्युः॑ । शृ॒ण॒व॒त् । वन्द॑नानि ॥

सायणभाष्यम्

हे इन्द्र वृषणा सेचनसमर्थौ सुधुरा शोभनया धुरान्वितौ स्वङा शोभनावयवोपेतौ सखाया शोभनाख्यानावेतैतौ हरी त्वामा वहातश्च । यज्ञम् प्रय्तागमनाय रथे त्वामावहतः । अथ धानावत् भृष्टवोपेतं सवनं जुषाणः सेवमानः सखा सखिभूतः स इन्द्रः सुख्युः सोत्तुर्मम वन्दनानि स्तोत्राणि शृणवत् शृणुयात् । वहातः । वहेर्लेट्याडागमे रूपम् । चवायोगे । राथमेति न निघातः वणवत् । श्रु श्रवण इत्यस्य लेट्यडागमे रूपम् । निघातः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः