मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ४३, ऋक् ६

संहिता

आ त्वा॑ बृ॒हन्तो॒ हर॑यो युजा॒ना अ॒र्वागि॑न्द्र सध॒मादो॑ वहन्तु ।
प्र ये द्वि॒ता दि॒व ऋ॒ञ्जन्त्याता॒ः सुस॑म्मृष्टासो वृष॒भस्य॑ मू॒राः ॥

पदपाठः

आ । त्वा॒ । बृ॒हन्तः॑ । हर॑यः । यु॒जा॒नाः । अ॒र्वाक् । इ॒न्द्र॒ । स॒ध॒ऽमादः॑ । व॒ह॒न्तु॒ ।
प्र । ये । द्वि॒ता । दि॒वः । ऋ॒ञ्जन्ति॑ । आताः॑ । सुऽस॑म्मृष्टासः । वृ॒ष॒भस्य॑ । मू॒राः ॥

सायणभाष्यम्

हे इन्द्र त्वा त्वां बृहन्तो महान्तो युजाना रथे युज्यमाना हरयोऽश्वाः सधमादः सह मादयन्तः सन्तोऽर्वाक् अस्मदभिमुखमा वहन्तु । वृषभस्य कामानां हर्षितुरिन्द्रस्य मूराः शत्रूणां मारकाः सुसंमृष्टास इन्द्रस्य हस्ताभ्यां पृष्ठभागे सुष्ठु संस्पृष्टादिवो नभसः सकाशादागच्छन्तो येऽश्वा आताः । आभिमुख्येन गम्यन्ते प्राणिभिस्तत्तत्कार्यं प्रतीत्याता दिशः । सर्वा दिशो द्विता द्वैधं यथा भवति तथा प्र ऋंजन्ति । प्रकर्षेण साधयन्ति । युजानाः । युजिर् योगे युजिबुधिदृशः किच्च । उ. २-९० । इत्यानच् । चित्त्वादन्तोदात्तः । सधमादः । मदी हर्ष इत्यस्माण्यन्तात् क्विप् । कृदुत्तरपदस्वरः । द्विता । द्विशब्दात्संख्याया विधार्थे धेति धाप्रत्ययः । धकारस्य तकारश्छान्दसः । प्रत्ययस्वरः । दिवः । ऊडिदमिति विभक्तेरुदात्तत्वम् । आशाः । अत सातत्यगमन इत्यस्मात्कर्मणि घञ् । व्यत्ययेनाद्युदात्तः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः