मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ४३, ऋक् ७

संहिता

इन्द्र॒ पिब॒ वृष॑धूतस्य॒ वृष्ण॒ आ यं ते॑ श्ये॒न उ॑श॒ते ज॒भार॑ ।
यस्य॒ मदे॑ च्या॒वय॑सि॒ प्र कृ॒ष्टीर्यस्य॒ मदे॒ अप॑ गो॒त्रा व॒वर्थ॑ ॥

पदपाठः

इन्द्र॑ । पिब॑ । वृष॑ऽधूतस्य । वृष्णः॑ । आ । यम् । ते॒ । श्ये॒नः । उ॒श॒ते । ज॒भार॑ ।
यस्य॑ । मदे॑ । च्य॒वय॑सि । प्र । कृ॒ष्टीः । यस्य॑ । मदे॑ । अप॑ । गो॒त्रा । व॒वर्थ॑ ॥

सायणभाष्यम्

हे इन्द्र वृषधूतस्य ग्रावभिरभिषुतं वृष्णोऽभिमतफलसेचकं सोमं पिब । श्येनः संसनीयगतिश्छन्दोरूपः सुपर्ण उशते सोमं कामयमानाय ते तुभ्यं यं सोमामा जभार । आजहार । यस्य सोमस्य मदे हर्षे सञ्जाते सति कृष्टीः । आकर्षन्ति वशीकुर्वन्ति कर्मणा सर्वानिति कृष्टयो मनुष्याः । तान् सपत्नभुतान्मनुष्यान् प्र च्यावयसि । प्रकर्षेण पातयसि । यस्य सोमस्य मदे सञ्जाते सति गोत्रा । गामुदकं रश्मिभिरावृतं वर्षास्वृतुषु त्रायन्ते पालयन्तीति गोत्रा मेघाः । तानप ववर्थ । अपवृणोषि । वृषधूतस्य । धूञ् कम्पन इत्यस्य निष्थयां यस्य विभाषेतीट् प्रतिषेधः । तृतीया कर्मणीति पूर्वपदस्वरः । श्येनः । श्येङ् गतौ । श्यास्त्याहृञ्हविभ्य इनच् । उ. २-४६ । इतीनच् प्रत्ययः । श्यायत इति श्यैनः । चित्त्वादन्तोदात्तः । जभार । हरतेर्लिटि णलि रूपम् । हृग्रहोर्भश्छन्दसिति भकारः । यद्वृत्तयोगादनिघातः । लित्स्वरः मदे । मदी हर्षे । मदोऽनुपसर्ग इत्यप्रत्ययः । तस्य पित्त्वादनुदात्तत्वे धातुस्वरः । गोत्रा त्रैङ् पालन इत्यास्यातोऽनुपसर्गे क इति कः । सुपो डादेशः । एकादेशस्वरः । ववर्थ । वृञ् वरण इत्यस्य लिटि थल्यृतो भारद्वाजस्येतीट् प्रतिषेधः । गुणः लित्स्वरः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः