मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ४४, ऋक् ३

संहिता

द्यामिन्द्रो॒ हरि॑धायसं पृथि॒वीं हरि॑वर्पसम् ।
अधा॑रयद्ध॒रितो॒र्भूरि॒ भोज॑नं॒ ययो॑र॒न्तर्हरि॒श्चर॑त् ॥

पदपाठः

द्याम् । इन्द्रः॑ । हरि॑ऽधायसम् । पृ॒थि॒वीम् । हरि॑ऽवर्पसम् ।
अधा॑रयत् । ह॒रितोः॑ । भूरि॑ । भोज॑नम् । ययोः॑ । अ॒न्तः । हरिः॒ । चर॑त् ॥

सायणभाष्यम्

सोयमिन्द्रो हरिधायसम् । हरितो हरितवर्णा धायसो धारकारत्मयो यस्याः सा । तां द्यामधारयत् । तथा हरिवर्पसमोषधीभिर्हरितवर्णां पृथिवीमधारयत् । हरितोर्हरिद्वर्णयोर्ययोर्द्यावापृथिव्योर्मध्ये स्वकीययोरश्वयोर्भूरि प्रभूतं भोजनम् । भुज्यत इति भोजनं यवसादि । लभ्यते । ययोश्च द्यावापृथिव्योरन्तर्मध्ये हरिरिन्द्रश्चरत् । चरति । ते द्यावापृथिव्यानिन्द्रोऽधारयदित्यर्थः । हरिधायसम् । डुधाञ् धारन पोषणयोरित्यस्माद्वहिहाधाञ्भ्यश्छन्दसीत्यसुन् । णुदित्यनुवृत्तेरातो युक् । बहुव्रीहौ पूर्वपदस्वरः । पृथिवीम् । प्रथेः षिवन् सम्प्रसारणं चेति षिवन्प्रत्ययः । षिद्गौरादिभ्यश्चेद्ति ङीष् । प्रत्ययस्वरेणान्तोदात्तः । हरिवर्पसम् । वृङ् सम्भक्तौ । वृङ्शीङ्भ्यां रूपस्वाङ्गयोरित्यसुन्प्रत्ययः । पुगागमश्च । सम्भज्यते तदिति वर्पो रूपम् । बहुव्रीहौ पूर्व पदस्वरः । हरितोः । हृञ् हरण इत्यस्मात् हृसृरुहि युशिभ्य इतिः । उ. १-९९ । इतीतिप्रत्ययः । प्रत्ययस्वरः । भोजनम् । भुज पालनाभ्यवहारयोरित्यस्मात्कृत्यल्युटोबहुलमिति कर्मणि ल्युट् । लित्स्वरः । अन्तः । स्वरादिष्वन्तोदात्तत्वेन पठितत्वादन्तोदात्तः । चरत् । तरतिर्गथर्त्यः । लेटि रूपम् । यद्वृत्तयोगादनिघातः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः