मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ४४, ऋक् ४

संहिता

ज॒ज्ञा॒नो हरि॑तो॒ वृषा॒ विश्व॒मा भा॑ति रोच॒नम् ।
हर्य॑श्वो॒ हरि॑तं धत्त॒ आयु॑ध॒मा वज्रं॑ बा॒ह्वोर्हरि॑म् ॥

पदपाठः

ज॒ज्ञा॒नः । हरि॑तः । वृषा॑ । विश्व॑म् । आ । भा॒ति॒ । रो॒च॒नम् ।
हरि॑ऽअश्वः । हरि॑तम् । ध॒त्ते॒ । आयु॑धम् । आ । वज्र॑म् । बा॒ह्वोः । हरि॑म् ॥

सायणभाष्यम्

वृषा कामानां वर्षको हरितो हरिद्वर्णोपेतो जज्ञानो जात इन्द्रो विश्वं सर्वं रोचनं दीप्यमानं लोकमा भाति । सर्वतः प्रकाशयति । तत्या हर्यश्व इन्द्रो हरितं हरिद्वर्णोपेतमायुधं धत्ते । बाह्वोर्धत्ते । तथा हरिं शत्रूणां प्रणहारकं वज्रं बाह्वोराधत्ते ॥ जज्ञानः । जनी प्रादुर्भाव इत्यस्य लिटः कानच् । गमहनेत्यादिनोपधालोपः । चित्त्वादन्तोदात्तः । भाति । भा दीप्तावित्यस्यान्तर्भावितण्यर्थस्य लटि रूपम् । रोचनम् । रुच दीप्तावित्यस्मादनुदात्तेतश्च हलादेरिति युच् । चित्त्वादन्तोदात्तः । बाह्वोः । उदात्तयणोहल्पूर्वादिति विभक्तेरुदात्तत्वं ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः