मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ४५, ऋक् १

संहिता

आ म॒न्द्रैरि॑न्द्र॒ हरि॑भिर्या॒हि म॒यूर॑रोमभिः ।
मा त्वा॒ के चि॒न्नि य॑म॒न्विं न पा॒शिनोऽति॒ धन्वे॑व॒ ताँ इ॑हि ॥

पदपाठः

आ । म॒न्द्रैः । इ॒न्द्र॒ । हरि॑ऽभिः । या॒हि । म॒यूर॑रोमऽभिः ।
मा । त्वा॒ । के । चि॒त् । नि । य॒म॒न् । विम् । न । पा॒शिनः॑ । अति॑ । धन्व॑ऽइव । तान् । इ॒हि॒ ॥

सायणभाष्यम्

हे इन्द्र मन्द्रैर्मादयितृभिर्मयूररोमभिर्मयूररोमसदृशरोमयुक्तैर्हरिभिरश्वैरुपेतस्त्वमा याहि । यज्ञं प्रत्यागच्छ । केचिदपि जनास्त्वा त्वां मानि यमन् । मानियच्छन्तु । गमनप्रतिबन्धं मा कुर्वन्त्वित्यभिप्रायः । प्रतिबन्धे दृष्टान्तः । मिंन । यथा पाशिनः पाशहस्ता व्याधा विं गच्छन्तं पक्षिणं नियच्छन्ति तद्वन्मा नियच्छन्तु । किञ्च धन्वेव । यथा पन्था धन्व मरुदेशं शीघ्रमतिगच्छन्ति । तद्वद्गमनप्रतिबन्धकानतीत्य शीघ्रमिहि । आगच्छ । मन्द्रैः । मदि स्तुत्यादिष्वित्यस्य स्फायितञ्चीत्यादिना रक्प्रत्ययः । इदित्त्वान्नुम् । प्रत्य्त्यस्वरः । मयूररोमभिः । मयूररोमवद्रोमाणि येशामिति सप्तम्युपमानपुर्वपदस्य बहुव्रीहिरुत्तरपदलोपश्च । पा. २-२-२४-१२ । इति समास उत्तरपदलोपश्च । मयूर शब्दो मीनातेरूरन् उ. १-६८ । इत्यूरन्प्रत्ययान्तः । मीनाति सर्पानिति मयूरो बर्ही । नित्त्वादाद्युदात्तत्वे प्राप्ते मादीनाम् । फि. ३-४ । इति सूत्रेण मध्योदात्तः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरः । यमन् यम उपरम इत्यस्य लेट्यडागमे रूपम् । इहि । इण् गतावित्यस्य लोटि रुपं ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः