मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ४५, ऋक् २

संहिता

वृ॒त्र॒खा॒दो व॑लंरु॒जः पु॒रां द॒र्मो अ॒पाम॒जः ।
स्थाता॒ रथ॑स्य॒ हर्यो॑रभिस्व॒र इन्द्रो॑ दृ॒ळ्हा चि॑दारु॒जः ॥

पदपाठः

वृ॒त्र॒ऽखा॒दः । व॒ल॒म्ऽरु॒जः । पु॒राम् । द॒र्मः । अ॒पाम् । अ॒जः ।
स्थाता॑ । रथ॑स्य । हर्योः॑ । अ॒भि॒ऽस्व॒रे । इन्द्रः॑ । दृ॒ळ्हा । चि॒त् । आ॒ऽरु॒जः ॥

सायणभाष्यम्

सोयमिन्द्रो वृत्रखादः । वृत्रं खादति हिनस्तीति वृत्रखादः । वलंरुजः । वृणोत्याकाशमिति वलो मेघः । तस्य भञ्जकः । तथा च मन्त्रवर्णः । बिभेद वलम् । ऋग्वे. ३-३४-१० । इति । ततोऽपामजो मेघभेदनद्वाराऽपां प्रेरकः पुरां शत्रुसम्बन्धिनां पुराणां धरो दारकः । तथा हर्योरश्वयोरभिस्वरेऽस्मदाभिमुख्येन प्रेरणे निमित्तभूते सति रथस्य स्था रथमधिष्ठाता । तथा दृळ्हा चित् दृढानामति बलवतां शत्रूणामप्यारजः समन्ताद्भञ्जको भवति । वृत्रखादः । खादृ भक्षण इत्यस्मात्कर्मण्यण् । कृदुत्तरपदस्वरः । वलंरुजः । रुजो भङ्गे । कर्मण्य्पुपदे मूलविभुजादित्वात्कप्रत्ययः । तत्पुरुषे कृति बहुलमिति द्वितीयायां अलुक् । थाथादिस्वरः । आरुजः । रुजो भङ्ग इत्यास्मादिगुणफदलक्षण कः । समासे थाथादिस्वरः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः