मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ४५, ऋक् ३

संहिता

ग॒म्भी॒राँ उ॑द॒धीँरि॑व॒ क्रतुं॑ पुष्यसि॒ गा इ॑व ।
प्र सु॑गो॒पा यव॑सं धे॒नवो॑ यथा ह्र॒दं कु॒ल्या इ॑वाशत ॥

पदपाठः

ग॒म्भी॒रान् । उ॒द॒धीन्ऽइ॑व । क्रतु॑म् । पु॒ष्य॒सि॒ । गाःऽइ॑व ।
प्र । सु॒ऽगो॒पाः । यव॑सम् । धे॒नवः॑ । य॒था॒ । ह्र॒दम् । कु॒ल्याःऽइ॑व । आ॒श॒त॒ ॥

सायणभाष्यम्

हे इन्द्र त्वं गम्भीरान्महावकाशानुदधीन् समद्रानुदकैर्यथा पोषयसि तद्वत्क्रतुं यज्ञस्य कर्तारमिमं यजमानमभिमतफलप्रदानेन पुष्यसि । पोषयसि । अत्र दृष्टान्तः । यथा सुगोपाः संईचीनो गोपालो यवसेन गाः पोषयति तद्वत् । यथा धेनवो यवसं तृणादिकं प्राप्नुवन्ति तद्वत्त्वं सोमान् प्राप्नोषि । ते च सोमाः कुल्या इव कृत्रिमसरितो ह्रदं महाजलाशयं यथा प्राप्नुवन्ति तद्वत्त्वामाशत । व्याप्नुवन्ति । गम्भीरान् । गाधृ प्रतिष्थालिप्सयोर्ग्रन्थे चेत्यस्माद्गंभीरगभीरावित्यनेन सूत्रेण इरच् प्रत्ययः । नुमागमोपधाह्रस्वभकाराः सर्वे निपात्यन्ते । चित्त्वादन्तोदात्तः । उदधीनिव । उदकशब्द उपपदे दधातेरधिकरणेऽर्थे कर्मण्यधिकरणे चेति किप्रत्ययः । उदकशब्दस्य पेषंवासवाहनधिषु च । पा. ६-३-५८ । इत्युदभावः । कृत्स्वरः । इवेन विभक्त्यलोपः । पुश्यस्त् । पुश पुश्वावित्यस्यान्तर्णीतण्यर्थस्य लटि रूपम् । निघातः । सुगोपाः । गोपायतेः । क्विपि रूपम् । यथा । यथेति पादान्ते । फो. ४-१७ । इति निघातः । आशत । आशू व्याप्तावित्यस्मालिङि बहुलं छन्दसीति विकरणस्य लुक् । निघातः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः