मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ४५, ऋक् ४

संहिता

आ न॒स्तुजं॑ र॒यिं भ॒रांशं॒ न प्र॑तिजान॒ते ।
वृ॒क्षं प॒क्वं फल॑म॒ङ्कीव॑ धूनु॒हीन्द्र॑ स॒म्पार॑णं॒ वसु॑ ॥

पदपाठः

आ । नः॒ । तुज॑म् । र॒यिम् । भ॒र॒ । अंश॑म् । न । प्र॒ति॒ऽजा॒न॒ते ।
वृ॒क्षम् । प॒क्वम् । फल॑म् । अ॒ङ्कीऽइ॑व । धू॒नु॒हि॒ । इन्द्र॑ । स॒म्ऽपार॑णम् । वसु॑ ॥

सायणभाष्यम्

हे इन्द्र नोऽस्माकं तुजं शत्रूणां बाधकं रयिं धनेनोपलक्षितं पुत्र मा भर । संपादय । तत्र दृष्टान्तः । अंशं न । यथा पिता प्रतिजानते व्यवहारज्ञाय पुत्राय स्वकीयस्य धनस्य भागं ददाति तद्वत् । कि~च पक्वं फलं प्रतिवृक्षमङ्गीवाङ्कुशी यथा धूनोति तथा त्वं संपारणमस्मदिच्छायाः सम्यक् पूरकं वसु धनं धूनुहि । चालय । प्रयच्छेत्यर्थः । प्रतिजानते । ज्ञा अवबोधन इत्यस्य शरति रूपम् । प्रादिसमासः । शतुरनुम इति विभक्तेरुदात्तत्वम् । धूनुहि । धूञ् कम्पन इत्यस्य लोटि रूपम् । संपारणम् । पॄ पालन पूरणयोरित्यस्य ण्यन्तस्य करणे ल्युट् । समासे कृत्स्वरः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः