मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ४६, ऋक् १

संहिता

यु॒ध्मस्य॑ ते वृष॒भस्य॑ स्व॒राज॑ उ॒ग्रस्य॒ यून॒ः स्थवि॑रस्य॒ घृष्वे॑ः ।
अजू॑र्यतो व॒ज्रिणो॑ वी॒र्या॒३॒॑णीन्द्र॑ श्रु॒तस्य॑ मह॒तो म॒हानि॑ ॥

पदपाठः

यु॒ध्मस्य॑ । ते॒ । वृ॒ष॒भस्य॑ । स्व॒ऽराजः॑ । उ॒ग्रस्य॑ । यूनः॑ । स्थवि॑रस्य । घृष्वेः॑ ।
अजू॑र्यतः । व॒ज्रिणः॑ । वी॒र्या॑णि । इन्द्र॑ । श्रु॒तस्य॑ । म॒ह॒तः । म॒हानि॑ ॥

सायणभाष्यम्

हे इन्द्र युध्मस्य योधनशीलस्य वृशभस्याभिमतफलसेचकस्य स्वराजो धनाधिपतेरुग्रस्य समर्थस्य यूनो नित्यतरुणस्य स्थविरस्य चिरन्तनस्य घृष्वेः शत्रूणां संघर्षकस्याजूर्यतो जरारहितस्य वज्रिणः श्रुतस्य त्रिषु लोकेषु प्रसिद्धस्य अत एव महतस्ते तव वीर्याणि महानि । महान्ति खलु । युउध्मस्य । युध संप्रहारे । इषियुधीन्धिदसीत्यादिना मक्प्रत्ययः । यूनः । यौतेः कनिन्युवृषीत्यादिना कनिन् । श्वयुवमघोनामतद्धित इति संप्रसरनम् । नित्स्वरः । स्थविरस्य । अजिरशिशिरशिथिलेत्यादिना किरन्प्रत्ययान्तो निपातितः । घृष्वेः । घृषु संभर्षे । कृविघृश्विच्छवीत्यादिना किव्न्प्रत्ययान्तो निपात्यते । नित्त्वादाद्युदात्तः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०