मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ४६, ऋक् २

संहिता

म॒हाँ अ॑सि महिष॒ वृष्ण्ये॑भिर्धन॒स्पृदु॑ग्र॒ सह॑मानो अ॒न्यान् ।
एको॒ विश्व॑स्य॒ भुव॑नस्य॒ राजा॒ स यो॒धया॑ च क्ष॒यया॑ च॒ जना॑न् ॥

पदपाठः

म॒हान् । अ॒सि॒ । म॒हि॒ष॒ । वृष्ण्ये॑भिः । ध॒न॒ऽस्पृत् । उ॒ग्र॒ । सह॑मानः । अ॒न्यान् ।
एकः॑ । विश्व॑स्य । भुव॑नस्य । राजा॑ । सः । यो॒धया॑ । च॒ । क्ष॒यय॑ । च॒ । जना॑न् ॥

सायणभाष्यम्

हे महिष महनीय उग्र इन्द्र त्वं महानसि । धनस्पृत् धनानि दानभोगत्यागैः पारं नयंस्त्वं वृष्ण्येभिर्वीरैरन्यान् । शत्रून्सहमानोऽभिभवन्वर्तसे । तत्या विश्वस्य सर्वस्य भुवनस्यैकोऽसहायो राजा स त्वं योधय च । सपत्नान् प्रहर । जनान् क्षयय च । निवासय । बाधकान्हत्वा साधुजनान् स्वस्थाने स्थापयेत्यभिप्रायः । महिश । मह पूजायाम् । अवमह्योष्टिषच् । उ. १-४६ । इति टिषच् प्रत्ययः । आमन्त्रितत्वान्निघातः । वृष्न्येभिः । वृष्णि भवानि भवे छन्दसीति यत् । यतोऽनाव इत्याद्युदात्तः । योधय । युध संप्रहार इत्यस्य ण्यन्तस्य लोटि रूपम् । चादिषु चेति न निघातः । णित्स्वरः । क्षयय । क्षिनिवासगत्योरित्यस्य ण्यन्तस्य लोटि रूपम् । अत्रापि पूर्वपदनिघातः । ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०