मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ४६, ऋक् ३

संहिता

प्र मात्रा॑भी रिरिचे॒ रोच॑मान॒ः प्र दे॒वेभि॑र्वि॒श्वतो॒ अप्र॑तीतः ।
प्र म॒ज्मना॑ दि॒व इन्द्र॑ः पृथि॒व्याः प्रोरोर्म॒हो अ॒न्तरि॑क्षादृजी॒षी ॥

पदपाठः

प्र । मात्रा॑भिः । रि॒रि॒चे॒ । रोच॑मानः । प्र । दे॒वेभिः॑ । वि॒श्वतः॑ । अप्र॑तिऽइतः ।
प्र । म॒ज्मना॑ । दि॒वः । इन्द्रः॑ । पृ॒थि॒व्याः । प्र । उ॒रोः । म॒हः । अ॒न्तरि॑क्षात् । ऋ॒जी॒षी ॥

सायणभाष्यम्

रोचमानो दीप्यमानो विश्वतः सर्वैरप्रतीत एतावदस्य सामर्थ्यमित्यपरिच्छिद्यमान ऋजीषी सोमवानिन्द्रो मात्रभिः । मीयन्ते परिच्छिद्यन्त इति मात्राः शिलोच्चयाः । तेभ्योऽपि प्र रिरिचे । प्रकर्षेण महत्तयातिरिक्तोऽभूत् । तथा देवेभिर्देवेभ्योऽपि मज्मना । मज्जयति शत्रून्दुःखसागर इति मज्म बलम् । तेन बलेन प्ररिरिचे । तथा दिवः पृघिव्या द्यावापृथिवीभ्यां च प्ररिरिचे । तथोरोर्विस्तीर्णान्महो महतोन्तरिक्षादपि प्ररिरिचे । मात्राभिः माङ् शब्दे चेत्यस्मात् हुयामाश्रुभसिभ्यस्त्रन्निति त्रन्प्रत्ययः । नित्त्वादाद्युदात्तः । ढ्रलोपे पूर्वस्य दीर्घोऽण इति संहितायां दीर्घः । रोचमानः । रुच दीप्तावित्यस्मात् शानचि रूपम् । तस्य लसार्वधातुकस्वरे धातुस्वरः । अप्रतीतः । इ~ण् गतौ । कर्मणि क्तः । प्रादिसमासः । नञा समासे तस्य स्वरः । मज्मना । टुमस्जो शुद्धौ । औणादिको मनिच्प्रत्ययः । झलां झश् झशीति जश्त्वम् । चित्त्वादन्तोदात्तः । पृथिव्याः । उदात्तयणो हल्पूर्वादिति विभक्तेरुदात्तत्वं ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०