मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ४६, ऋक् ४

संहिता

उ॒रुं ग॑भी॒रं ज॒नुषा॒भ्यु१॒॑ग्रं वि॒श्वव्य॑चसमव॒तं म॑ती॒नाम् ।
इन्द्रं॒ सोमा॑सः प्र॒दिवि॑ सु॒तासः॑ समु॒द्रं न स्र॒वत॒ आ वि॑शन्ति ॥

पदपाठः

उ॒रुम् । ग॒भी॒रम् । ज॒नुषा॑ । अ॒भि । उ॒ग्रम् । वि॒श्वऽव्य॑चसम् । अ॒व॒तम् । म॒ती॒नाम् ।
इन्द्र॑म् । सोमा॑सः । प्र॒ऽदिवि॑ । सु॒तासः॑ । स॒मु॒द्रम् । न । स्र॒वतः॑ । आ । वि॒श॒न्ति॒ ॥

सायणभाष्यम्

उरुं महान्तं अत एव गभीरं महावकाशं जनुषा जन्मना स्वभावत एवोग्रं शत्रूणां भयङ्करम् । गभीरत्वमेवोच्यते । विश्वव्यचसं विश्वव्याप्तं मतीनां स्तुतीनां स्तोतॄणां वावतं रक्षकं तादृशमिन्द्रं प्रदिवि पूर्वेष्वहःसु सुतासो ग्रावभिरभिषुताः सोमासः सोमा अभि आभिमुख्येना विशंति । तत्र दृष्टान्तः । समुद्रं न । यथा स्रवतः स्रवन्त्यो नद्यः समुद्रमाविशम्ति तद्वत् । जनुषा । जनी प्रादुर्भाव इत्यस्माज्जनेरुसिरित्युसिप्रत्ययः । विश्वव्यचसम् । व्यच वाजीकरण इत्यस्मादसुन् । व्यचेः कुटादित्वमनसिति वक्तव्यमित्यत्रानसीति पर्युदासात् ङित्त्वाभावः । बहुव्रीहौ विश्वं संज्ञायामिति पूर्वपदस्यान्तोदात्तत्वम् । अवतु । अव रक्षणादिषु । औणादिकोऽतच् प्रत्ययः । चित्त्वादन्तोदात्तः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०