मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ४६, ऋक् ५

संहिता

यं सोम॑मिन्द्र पृथि॒वीद्यावा॒ गर्भं॒ न मा॒ता बि॑भृ॒तस्त्वा॒या ।
तं ते॑ हिन्वन्ति॒ तमु॑ ते मृजन्त्यध्व॒र्यवो॑ वृषभ॒ पात॒वा उ॑ ॥

पदपाठः

यम् । सोम॑म् । इ॒न्द्र॒ । पृ॒थि॒वीद्यावा॑ । गर्भ॑म् । न । मा॒ता । बि॒भृ॒तः । त्वा॒ऽया ।
तम् । ते॒ । हि॒न्व॒न्ति॒ । तम् । ऊं॒ इति॑ । ते॒ । मृ॒ज॒न्ति॒ । अ॒ध्व॒र्यवः॑ । वृ॒ष॒भ॒ । पात॒वै । ऊँ॒ इति॑ ॥

सायणभाष्यम्

हे इन्द्र पृथिवीद्यावा द्यावापृघिव्यौ त्वाया त्वत्कामनया यं सोमं बिभृतोऽन्तर्धारयतः । अत्र दृष्टान्तः । बर्भं न । यथा माता गर्घं बिभर्ति तद्वत् हे वृषभ कामानां वर्षक हे इन्द्र अध्वर्यवोऽध्वरं यजमानायेच्छन्तस्ते त्वदर्थं तं सोमं हिन्वन्ति । प्रेरयन्ति । किञ्च ते तव पातवै पानाय तं सोमं मृजन्ति । शोधयन्ति । उ प्रसिद्धौ । पृथिवीद्यावा । दिवो द्यावेति द्यावादेशः । आद्युदात्तः । नोत्तरपदेऽनुदात्तादावपृधिवीरुद्रपूषमन्थिष्वित्यत्र पर्युदासाद्देवताद्वन्द्वे चेत्युभयपदप्रकृतिस्वरः । कृतसमासस्य विपर्यासश्छान्दसः । बिभृतः । डुभृञ् धारण पोशणयोरित्यस्माल्लटि भृञामिदित्यभ्यासस्येत्वम् । यद्वृत्तयोगादनिघातः । अजादिप्रत्ययपरत्वाभावादत्राभ्यस्तानामादिरिति स्वरो न भवति । प्रत्ययस्वरः । त्वाया । त्वामिच्छतीत्यर्थे सुप आत्मनः क्यच् । पूर्वपददकारस्याकारश्छान्दसः । अ प्रत्ययादिति भावेऽप्रत्ययः । सुपां सुलुगिति तृतीयायाः सवर्नदीर्घः । एकादेशस्वरः । अध्वर्यवः । अध्वरमिच्छन्तः । सुपः क्यच् । क्व्यध्वरपृतनस्यर्चि लोप इत्याकारलोपः । क्याच्छन्दसीत्युप्रत्ययः । प्रत्ययस्वरः । पातवै । पा पाने । तुमर्थे तनैप्रत्ययः । अन्तश्च तवै युगपदिति धात्वन्तस्य प्रत्ययस्य चोदात्तत्वं उञ इति प्रगृह्यसंज्ञा ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०