मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ४७, ऋक् २

संहिता

स॒जोषा॑ इन्द्र॒ सग॑णो म॒रुद्भि॒ः सोमं॑ पिब वृत्र॒हा शू॑र वि॒द्वान् ।
ज॒हि शत्रूँ॒रप॒ मृधो॑ नुद॒स्वाथाभ॑यं कृणुहि वि॒श्वतो॑ नः ॥

पदपाठः

स॒ऽजोषाः॑ । इ॒न्द्र॒ । सऽग॑णः । म॒रुत्ऽभिः॑ । सोम॑म् । पि॒ब॒ । वृ॒त्र॒ऽहा । शू॒र॒ । वि॒द्वान् ।
ज॒हि । शत्रू॑न् । अप॑ । मृधः॑ । नु॒द॒स्व॒ । अथ॑ । अभ॑यम् । कृ॒णु॒हि॒ । वि॒श्वतः॑ । नः॒ ॥

सायणभाष्यम्

उत पै च हे ऋतुपाः कालनिर्वाहकतया ऋतूनां पातः । ऋतुषु सोमं पिबतीति वा ऋतुपाः । यद्वा ऋतुभिर्मरुद्भिः सह सोमं पिबतीति ऋतुपाः । तादृश हे इन्द्र सखिभिः समानख्यानैऋतुभिर्मरुद्भिर्देवेभिर्देवैः सहितस्त्वं नः सम्बन्धिनं सुतमभिषुतं सोमं पाहि । पिब । किञ्च यान्मरुत आभजोयुद्धसहायार्थमसेवथा ये च मरुतस्त्वा त्वां युद्धे स्वामिनमन्वभजन्त । ततस्त्वं वृत्रमहन् । हतवानसि । ते मरुतस्तुइभ्यं त्वदर्थमोजो युद्धे शत्रुहननादिरुपं पराक्रममदधुः । अकुर्वन् । अभजः । भज सेवायामित्यस्य लङि रूपम् । यद्वृत्तयोगादिनिघातः । अहन् । हन हिम्सागत्योरित्यस्य लङि सिपो हल्ङ्यादिना लोपः । पादादित्वादनिघातः । अदधुः । दधातेर्लङि झेः सिजभ्यस्तेति जुस् । वाक्यभेदादनिघातः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११