मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ४७, ऋक् ४

संहिता

ये त्वा॑हि॒हत्ये॑ मघव॒न्नव॑र्ध॒न्ये शा॑म्ब॒रे ह॑रिवो॒ ये गवि॑ष्टौ ।
ये त्वा॑ नू॒नम॑नु॒मद॑न्ति॒ विप्रा॒ः पिबे॑न्द्र॒ सोमं॒ सग॑णो म॒रुद्भि॑ः ॥

पदपाठः

ये । त्वा॒ । अ॒हि॒ऽहत्ये॑ । म॒घ॒ऽव॒न् । अव॑र्धन् । ये । शा॒म्ब॒रे । ह॒रि॒वः॒ । ये । गोऽइ॑ष्टौ ।
ये । त्वा॒ । न्न॒म् । अ॒नु॒ऽमद॑न्ति । विप्राः॑ । पिब॑ । इ॒न्द्र॒ । सोम॑म् । सऽग॑णः । म॒रुत्ऽभिः॑ ॥

सायणभाष्यम्

हे इन्द्र मरुत्वन्तं मरुद्भिस्तद्वन्तं वृषभं मेघभेदनद्वारापां वर्षक ववृधानं वृत्रहननादिकर्मसूत्साहेन वर्धमानमकवारिं प्रभूतशत्रुकं यद्वा आकुत्सितारिम् । तथा च मन्त्रः । स्वरिरमत्रो ववक्षे रणाय । ऋग्वे. १-६१-९ । इति । दिव्यं दिवि स्वर्गलोके वर्तमानं शासं हितोपदेशाहितपरिहाराभ्यां शासितारं विश्वासाहं विश्वस्य प्रतिपक्षस्य सर्वस्याभिभवितारमुग्रं शत्रुषूद्गूर्णं सहोदां युद्धसहकारिणां मरुतां बलप्रदं तं तादृशसामर्थ्योपेतमिन्द्रं नुतनाय नवतरायावसे रक्षणायेह कर्मणि हुवेम । त्वामाह्वयेम । नूतनाय । नवशब्दस्य नू इत्यादेशः । त्नप्तनखाश्च प्रत्यया वक्तव्या इति तनप्रत्ययः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११