मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ४८, ऋक् २

संहिता

यज्जाय॑था॒स्तदह॑रस्य॒ कामें॒ऽशोः पी॒यूष॑मपिबो गिरि॒ष्ठाम् ।
तं ते॑ मा॒ता परि॒ योषा॒ जनि॑त्री म॒हः पि॒तुर्दम॒ आसि॑ञ्च॒दग्रे॑ ॥

पदपाठः

यत् । जाय॑थाः । तत् । अहः॑ । अ॒स्य॒ । कामे॑ । अं॒शोः । पी॒यूष॑म् । अ॒पि॒बः॒ । गि॒रि॒ऽस्थाम् ।
तम् । ते॒ । मा॒ता । परि॑ । योषा॑ । जनि॑त्री । म॒हः । पि॒तुः । दमे॑ । आ । अ॒सि॒ञ्च॒त् । अग्रे॑ ॥

सायणभाष्यम्

हे इन्द्र त्वं यद्यस्मिन्नहनि जायथा आजायथाः तदहस्तस्मिन्नेवाहन्यस्य सोमस्य कामे पिपासायां सत्यां गिरिष्ठां गिरिस्थां पर्वतोस्योच्चस्थाने वर्तमानमंशोः सोमलताखण्डविशिष्टस्य ऋजीषस्य पीयुशमभिनवं रसमपिबः । पीतवानसि । उत्पत्तिक्षण एव सोमपाने कारणं दर्शयति । ते तव जनित्री माता योषा युवतिरदितिर्महो महतः पितुर्जनकस्य कश्यपस्य दमे सूतिकागृहेऽग्रे स्तन्यदानात् प्राक् तं तादृषं सोमं पर्यासिञ्चत् । तवास्ये परितोऽक्षारयत् । जायथाः । जनी प्रादुर्भाव इत्यस्य लङि बहुलं छन्दसीत्यडभावः । यद्वृत्तयोगादनिघातः । जनित्री । जनिता मन्त्र इति निपातनाण्णेर्लोपः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२