मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ४९, ऋक् १

संहिता

शंसा॑ म॒हामिन्द्रं॒ यस्मि॒न्विश्वा॒ आ कृ॒ष्टयः॑ सोम॒पाः काम॒मव्य॑न् ।
यं सु॒क्रतुं॑ धि॒षणे॑ विभ्वत॒ष्टं घ॒नं वृ॒त्राणां॑ ज॒नय॑न्त दे॒वाः ॥

पदपाठः

शंस॑ । म॒हाम् । इन्द्र॑म् । यस्मि॑न् । विश्वाः॑ । आ । कृ॒ष्टयः॑ । सो॒म॒ऽपाः । काम॑म् । अव्य॑न् ।
यम् । सु॒ऽक्रतु॑म् । धि॒षणे॑ इति॑ । वि॒भ्व॒ऽत॒ष्टम् । घ॒नम् । वृ॒त्राणा॑म् । ज॒नय॑न्त । दे॒वाः ॥

सायणभाष्यम्

हे होत महां महान्तमिन्द्र शंस । शस्त्रैः स्तुहि । यस्मिन्निन्द्रे रक्षितरि सति विश्वाः कृष्तयः सर्व मनुष्याः सोमपा यज्ञमनुष्ठाय सोमपाः सन्तः कामम् । क्म्यत इति कामः स्वर्गादिः । तमाव्यन् सर्वतः प्राप्नुवन्ति । धिषणे देव मनुष्यादीनां धारयित्रौ । यद्वा । प्रगल्भे समर्थे स्वाश्रितान् रक्षितुमिति धिशणे द्यावापृथिवौ । देवाश्च सुक्रतुं क्रतुः कर्म जगत्पालनादि । शोभनः क्रतुर्यस्यासौ सुक्रतुः । ताद्रुशं विभ्वतष्टं विभुना ब्रह्मणा जगदाधिपत्ये स्थापितं महान्तं व्रुत्राणां पापरूपाणां घनं हन्तारं यमिन्द्रं जनयन्त । अजनयन् । शंस । शन्सु स्तुतावित्यस्य लोटि रूपम् । पादादित्वादनिघातः । द्व्यचोऽतस्तिङ इति संहितायां दीर्घः । अव्यन् । वी कान्तिगत्यादिषु । अल्ङि रूपम् । यद्वृत्तयोगादनिघातः । अट् स्वरः । सुक्रतुम् । क्रत्वादयश्चेत्युत्तरपदाद्युदात्तः । धिषणे । ञि धृषा प्रागल्भ्य इत्यस्माद्धृषेर्धिश च संज्ञायामिति क्युप्रत्ययः । ढिश इत्यादेशः । प्रत्ययस्वरः । घनम् । हन्तेः पुंसि संज्ञायामिति घः । हो हन्तेरिति कुत्वम् । प्रत्ययस्वरः । जनयन्त । जनेर्ण्यन्तस्य लङि रुपम् । यद्वृत्तयोगादनिघातः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३