मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ४९, ऋक् २

संहिता

यं नु नकि॒ः पृत॑नासु स्व॒राजं॑ द्वि॒ता तर॑ति॒ नृत॑मं हरि॒ष्ठाम् ।
इ॒नत॑म॒ः सत्व॑भि॒र्यो ह॑ शू॒षैः पृ॑थु॒ज्रया॑ अमिना॒दायु॒र्दस्यो॑ः ॥

पदपाठः

यम् । नु । नकिः॑ । पृत॑नासु । स्व॒ऽराज॑म् । द्वि॒ता । तर॑ति । नृऽत॑मम् । ह॒रि॒ऽस्थाम् ।
इ॒नऽत॑मः । सत्व॑ऽभिः । यः । ह॒ । शू॒षैः । पृ॒थु॒ऽज्रयाः॑ । अ॒मि॒ना॒त् । आयुः॑ । दस्योः॑ ॥

सायणभाष्यम्

पृतासु । व्याप्रियन्तेऽत्र योद्धार इति पृतनाः सङ्ग्रामाः । तेशु स्वराजं हरिष्ठां हरिस्थां हरियुक्ते रथे वर्तमानं नृतमं बलस्य युद्धे नेतृतमं द्विता युद्धमानाद्य सेनां द्विधा कृत्वा वर्तमानं यमिन्द्र नकिर्न कश्चिदपि तरति उत्तीर्य गच्छति । न कोऽप्यभ्यस्तीत्यर्थः । नु प्रसिद्धौ । स इन्द्र इनतमोऽतिशयेन सेनास्वामी सत्वभिः परितः सीदद्भिर्मरुद्भिः सह यो यान् गच्छन् शूषैः । शोशयन्ति परबलानीति शूषाणि बलानि । तैः पृथुज्रया युद्धं प्रति तीव्रवेगः सन् दस्योः शत्रोरायुरन्नं प्राणं वामिनात् । हिनस्ति । ह प्रसिद्धौ । अत्र निरुक्तम् । पृथुज्रयाः पृथुजवः । पृथुज्रया अमिनादायुर्दस्योः । प्रामापयुदायुर्दस्योः । ५-९ । इति तरति । तॄ प्लवनतरणयोरित्यस्य लिटि रूपम् । यद्वृत्तयोगादनिघातः । शपः पित्त्वादनुदात्तत्वे धातुस्वरः । यः । या प्रापणी । औणादिकः कप्रत्ययः । आतो लोपः । प्रत्ययस्वरः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३