मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ४९, ऋक् ३

संहिता

स॒हावा॑ पृ॒त्सु त॒रणि॒र्नार्वा॑ व्यान॒शी रोद॑सी मे॒हना॑वान् ।
भगो॒ न का॒रे हव्यो॑ मती॒नां पि॒तेव॒ चारु॑ः सु॒हवो॑ वयो॒धाः ॥

पदपाठः

स॒हऽवा॑ । पृ॒त्ऽसु । त॒रणिः॑ । न । अर्वा॑ । वि॒ऽआ॒न॒शिः । रोद॑सी॒ इति॑ । मे॒हना॑ऽवान् ।
भगः॑ । न । का॒रे । हव्यः॑ । म॒ती॒नाम् । पि॒ताऽइ॑व । चारुः॑ । सु॒ऽहवः॑ । व॒यः॒ऽधाः ॥

सायणभाष्यम्

य इन्द्र सहसा बलवान्पृत्सु सङ्ग्रामेशु तरणिः । शत्रूनुत्तीर्य वर्तत इति तरणिः । तत्र दृष्टान्तः । अर्वान । यथार्वा बलवानश्वः शत्रुबलं तरति तथा रोदसी द्यावापृथिवौ व्यानशिर्व्याप्नुवन्मेहनावान् । मिह्यते सिच्यते दीयतेऽर्थेभ्य इति मेहनं चनम् । तद्वान्भवति । तादृश इन्द्रः कारे । क्रियत इति कारो यज्ञादिः । तस्मिन्यज्ञे भगो न पूषा देव इव हव्यो हवनीयोमतीनां स्तोतॄणां स्तुतीनां वा पितेव पालयिता चारुआः कमनीयः सुहवः सुष्ठ्वा ह्वानोपेतो वयोधा अन्नस्य दाता भवति । सहावा । सहोऽस्यास्तीति मतुबर्थे छन्दसीवनिपाविति वनिप् । अन्येषामपि दृश्यत इति सम्हितायां दीर्घः । पृत्सु । पृतनाशब्दस्य सौ परतः मांस्पृत्स्नूनामुपसंख्यानमिति पृददेशः । सावेकाच इति विभक्तेरुदात्तत्वम् । व्यानशिः । अशू व्याप्तावित्यस्माच्छन्दसि सदादित्वात्किप्रत्ययः । तस्य लिड्वद्भावः । अत आदेरित्यभ्यासस्य दीर्घे कृतेऽश्नोतेश्चेति नुदागमः । प्रादिसमासः । कारे । करोतेः कर्मणि घञ । कर्षात्वतो घञोऽन्त उदात्त इत्यन्तोदात्तत्वम् । हव्यः । जुहोतेरचोयत् । यतोऽनाव इत्याद्युदात्तत्वम् । सुहवः । ह्वयतेर्भावेऽनुपसर्गस्य । पा. ३-३-७५ । इत्यप्प्रत्ययः । सम्प्रसारणम् । प्रत्ययस्य पित्त्वादनुदात्तत्वे धातुस्वरः । आद्युदात्तं द्व्यच्छन्दसीति बहुव्रीहावुत्तरपदाद्युदात्तत्वं ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३