मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ४९, ऋक् ४

संहिता

ध॒र्ता दि॒वो रज॑सस्पृ॒ष्ट ऊ॒र्ध्वो रथो॒ न वा॒युर्वसु॑भिर्नि॒युत्वा॑न् ।
क्ष॒पां व॒स्ता ज॑नि॒ता सूर्य॑स्य॒ विभ॑क्ता भा॒गं धि॒षणे॑व॒ वाज॑म् ॥

पदपाठः

ध॒र्ता । दि॒वः । रज॑सः । पृ॒ष्टः । ऊ॒र्ध्वः । रथः॑ । न । वा॒युः । वसु॑ऽभिः । नि॒युत्वा॑न् ।
क्ष॒पाम् । व॒स्ता । ज॒नि॒ता । सूर्य॑स्य । विऽभ॑क्ता । भा॒गम् । धि॒षणा॑ऽइव । वाज॑म् ॥

सायणभाष्यम्

स इन्द्रो दिवो द्युलोकस्य रजसोऽन्तरिक्षस्य च धर्ता धारकः पृष्टः सर्वत्र वर्तमानो रथो न तदियो रथ इवोर्ध्वो वायुरूर्ध्वं गन्ता वसुभिः सहायतया निवसद्भिर्मरुद्भिर्नियुत्पान्सहायवान् । यद्वा नेत्ययमुत्तरेणापि सम्बध्यते । यथा वायुर्नियुत्वान्नियुन्नामकवडवाभिस्तद्वानेवमिन्द्रो वसुभिर्मद्र्द्भिः सहायवान् । तथा क्षपां वस्ता रात्रिमाच्छादयन्सूर्यस्य जगत्प्रकाशकस्यादित्यस्य जनिता जनयिता भागं भजनीयं वाजं कर्मफलरूपमन्नं विभक्ता साधुविभागकर्ता भवति । तत्र दृष्ठान्तः । धिषणेव । यथाढ्यानां वागस्येदमिति विभागं करोति तद्वत् । रजसः । रन्ज राग इत्यस्माद्भूरञ्जिभ्यां कित् । उ. ४-२१६ । इत्यसुन् । कित्त्वान्नलोपः । रज्यते प्रकाशेनेति रजोऽन्तरिक्षम् । नित्त्वादाद्युदात्तः । वस्ता । वस आच्छादन इत्यस्य तृचि रूपम् । जनिता । जनयतेस्तृचि जनिता मन्त्र इति निपातनाण्णिलोपः । चित्त्वादन्तोदात्तः विभक्ता । भज सेवायामित्यस्य साधुकारिण्यर्थे तृन् । एकाच उपदेश इतीट् प्रतिषेधः । तादौ च निति कृत्यताविति गतेः प्रक्रुतिस्वरत्वं ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३