मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५०, ऋक् २

संहिता

आ ते॑ सप॒र्यू ज॒वसे॑ युनज्मि॒ ययो॒रनु॑ प्र॒दिवः॑ श्रु॒ष्टिमावः॑ ।
इ॒ह त्वा॑ धेयु॒र्हर॑यः सुशिप्र॒ पिबा॒ त्व१॒॑स्य सुषु॑तस्य॒ चारो॑ः ॥

पदपाठः

आ । ते॒ । स॒प॒र्यू इति॑ । ज॒वसे॑ । यु॒न॒ज्मि॒ । ययोः॑ । अनु॑ । प्र॒ऽदिवः॑ । श्रु॒ष्टिम् । आवः॑ ।
इ॒ह । त्वा॒ । धे॒युः॒ । हर॑यः । सु॒ऽशि॒प्र॒ । पिब॑ । तु । अ॒स्य । सुऽसु॑तस्य । चारोः॑ ॥

सायणभाष्यम्

हे इन्द्र ते तव जवसे यज्ञम् प्रत्यागमनाय सपर्यू परिचारकौ हरी आ युनज्मि । रथे योजयामि । प्रदिवः पुरातनस्त्वं ययोरश्वयोः शृष्टिं वेगम् । श्रुष्टीति क्शिप्रनामेति यास्कः । तमन्ववः । अनुगच्छसि । हे सुशिप्र शोभनहनो इन्द्र हरयो रथे योजतास्तेऽश्वा इह कर्मणि त्वां त्वां धेयुः । यज्ञं प्रति धारयन्तु । तत आगतस्त्वं सुषुतस्य सुष्ठ्वभिषुतं चारोः कमनीयमस्येमं सोमं तु क्शिप्रं पिब । सपर्यू । सपरशब्दः कण्ड्वादिः । तदन्तादौणादिकः कुप्रत्ययः । आवः । अवरक्षणादिशु । छान्दसे लङि रूपम् । यद्वृत्तयोगादनिघातः । धेयुः । दधातेराशीर्लिङि किदाशिषीति यासुट् । एर्लिङि । पा. ६-४-६७ । इत्येकारादेशः । निघातः । पिब । पादादित्वादनिघातः । सुषुतस्य । षुञ् अभिशवे । कर्मणि क्तः । गतिरनन्तर इति गतिस्वरः । उपसर्गात्सुनोतीत्यादिना संहितायां षत्वं ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४