मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५०, ऋक् ४

संहिता

इ॒मं कामं॑ मन्दया॒ गोभि॒रश्वै॑श्च॒न्द्रव॑ता॒ राध॑सा प॒प्रथ॑श्च ।
स्व॒र्यवो॑ म॒तिभि॒स्तुभ्यं॒ विप्रा॒ इन्द्रा॑य॒ वाहः॑ कुशि॒कासो॑ अक्रन् ॥

पदपाठः

इ॒मम् । काम॑म् । म॒न्द॒य॒ । गोभिः॑ । अश्वैः॑ । च॒न्द्रऽव॑ता । राध॑सा । प॒प्रथः॑ । च॒ ।
स्वः॒ऽयवः॑ । म॒तिऽभिः॑ । तुभ्य॑म् । विप्राः॑ । इन्द्रा॑य । वाहः॑ । कु॒शि॒कासः॑ । अ॒क्र॒न् ॥

सायणभाष्यम्

हे इन्द्र इमं धनादिविषयं काममस्मदीयमभिलाषं गोभिरग्निहोत्रादिकर्मसाधनभुतैर्गवादिभिर्वाहनसाधनभूतैरश्वैश्च चन्द्रवता दीप्तियुक्तेन राधसा धनेन च मन्दय । एतानि दत्त्वेममभिलाषं पूरय । किञ्च । एतैरस्मान्पप्रथः । प्रथितांश्च कुरु । पश्चात्स्वर्यवः स्वर्गाअदिसुखमात्मन इच्छन्तो विप्राः कर्मकुशलाः कुशिकासः कुशिका मतिभिर्मननीयैर्मन्त्रैर्वाहः स्तोत्रमिन्द्राय तुभ्यमक्रन् । अकार्षुः । मन्दय । मदि स्तुत्यादिष्वित्यस्य लोटि रूपम् । गोभिः । सावेकाच इति विभक्तेरुदात्तत्वे प्राप्ते न गोश्वन्साववर्णेत्यादिना प्रतिषेधः । प्रकृतिस्वरः । पप्रथः । प्रथप्रख्याने । क्विप् । डन्दस्युभयथेति तस्य सार्वधातुकत्वात् शप् । तस्य बहुलं छन्दसिति श्लुः । धातुस्वरः । अक्रन् । करोतेर्लुङि मन्त्रे घसह्वरेत्यादिना लुक् । निघातः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४