मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५१, ऋक् २

संहिता

श॒तक्र॑तुमर्ण॒वं शा॒किनं॒ नरं॒ गिरो॑ म॒ इन्द्र॒मुप॑ यन्ति वि॒श्वतः॑ ।
वा॒ज॒सनिं॑ पू॒र्भिदं॒ तूर्णि॑म॒प्तुरं॑ धाम॒साच॑मभि॒षाचं॑ स्व॒र्विद॑म् ॥

पदपाठः

श॒तऽक्र॑तुम् । अ॒र्ण॒वम् । शा॒किन॑म् । नर॑म् । गिरः॑ । मे॒ । इन्द्र॑म् । उप॑ । य॒न्ति॒ । वि॒श्वतः॑ ।
वा॒ज॒ऽसनि॑म् । पूः॒ऽभिद॑म् । तूर्णि॑म् । अ॒प्ऽतुर॑म् । धा॒म॒ऽसाच॑म् । अ॒भि॒ऽसाच॑म् । स्वः॒ऽविद॑म् ॥

सायणभाष्यम्

मे मदीया गिरः स्तुतिलक्षणा वाचः शक्रतुम् । शतं क्रतवो यज्ञा यस्यतम् । अर्णवं पर्जन्यात्मनोदकवन्तं शाकिनम् । शक्नोत्येभिरिन्द्र इति शाकाः । सहायभूता मरुतः । तद्वन्तम् । नरं सर्वस्य जगतो नेतारं वाजसनिं वाजस्यान्नस्य दातारं पूर्भिदं शत्रुपुरां भेत्तारं तूर्णिं युद्धं प्रति शीघ्रं गन्तारमप्तुरं मेघभेदनद्वारापां प्रेरकं धामसाचं तेजो भजमानम् । यद्वा धनं धाम । तदर्थिभिः सह योजयितारम् । अभिषाचं शत्रूणामभिभवितारं स्वर्विदं स्वर्गस्य सम्भकं तमिममिन्द्रं विश्वतः सर्वत उपयन्ति । उपगच्छन्तु । अर्णवम् । अर्णोऽस्यास्तीति मत्वर्थेऽर्णसः सलोपश्चेति वप्रत्ययः सकारलोपश्च । प्रत्ययस्वरः । नरम् । नयतेर्डिच्चेत्कृतप्रत्ययः । अमः सुप्त्वादनुदात्तत्वे प्रत्ययस्वरः । यन्ति । इण् गतावित्यस्य लटीणो यणिति यण् । निघातः । वाजसनिम् । षणु दाने । खनिकष्यन्ज्यसिवसीत्यादिना इप्रत्ययः । परादिश्छन्दसि बहुलमित्युत्तरपदाद्युदात्तत्वम् । तूर्णिम् । ञित्वरा सम्भ्रमे । वहिश्रीत्यादिना निप्रत्ययः । ज्वरत्वरेत्यादिना ऊट् । निदित्यतिदेशादाद्युदात्तः । अप्तुरम् । तुर त्वरणे । क्विप् । क्रुदुत्तरपदस्वरः । भिषाचम् । षच समवाये । ण्यन्तस्य क्विप् ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५