मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५१, ऋक् ६

संहिता

तुभ्यं॒ ब्रह्मा॑णि॒ गिर॑ इन्द्र॒ तुभ्यं॑ स॒त्रा द॑धिरे हरिवो जु॒षस्व॑ ।
बो॒ध्या॒३॒॑पिरव॑सो॒ नूत॑नस्य॒ सखे॑ वसो जरि॒तृभ्यो॒ वयो॑ धाः ॥

पदपाठः

तुभ्य॑म् । ब्रह्मा॑णि । गिरः॑ । इ॒न्द्र॒ । तुभ्य॑म् । स॒त्रा । द॒धि॒रे॒ । ह॒रि॒ऽवः॒ । जु॒षस्व॑ ।
बो॒धि । आ॒पिः । अव॑सः । नूत॑नस्य । सखे॑ । व॒सो॒ इति॑ । ज॒रि॒तृऽभ्यः॑ । वयः॑ । धाः॒ ॥

सायणभाष्यम्

हे हरिवोऽश्ववन्निन्द्र तुभ्यं त्वदर्थं ब्रह्माणि स्तोत्राणि तथा तुभ्यं गिरः शास्त्राणि च सत्रा सत्यमेव दधिरे । ऋत्विजो धारयन्ति । तानि जुशस्व । सेवस्व । हे वसो सर्वस्य वासयितः सखे सखिभूत हे इन्द्र आपिर्व्याप्तस्त्वं नूतनस्य नवतरमवसोऽन्नलक्षणं हविर्बोधि । त्वदर्थं दीयमानं जानीहि । अतस्त्वं जरितृभ्यः स्तोतृभ्योऽस्मभ्यं वयोऽन्नंधाः । देहि । तुभ्यम् । ङयि चेत्याद्युदात्तत्वम् । जुषस्व । जुषी प्रीतिसेवनयोरित्यस्य लोटि रूपम् । वाक्यभेदादनिघातः । गोधि । बुध अवगमन इत्यस्य लोटि वा छन्दसीति हेर्विकल्पेन ङित्त्वादत्र पित्त्वाद्गुणः । हुझल्भ्योहेर्धिरिति ध्यादेशः । ङित्त्वादन्तोदात्तः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६